________________
मुक्ता ]
सूत्रकृतलक्षणा
१०७
साधकत्वेनाद्रियते यद्वर्त्तमानकालभावित्वात् परमार्थतया सद्भूतं, तथा चेह लोक एवं विद्यते परमार्थतो न परलोकः न हि कोऽपि परलोकं दृष्ट्वेहायात इति परलोकं निह्नुते, स च कार्याकार्यविवेचनाविधुरः प्रत्यक्षस्यैवाभ्युपगमात्, मिथ्यादर्शनज्ञानावरणादिकर्मणाऽतीव निरुद्धदर्शनत्वाद्यथावस्थितवस्तुवेदि - सर्वज्ञोदितमार्गे न तस्य श्रद्धा समुदेति, अत एव स सदसद्विवेकविकलः पौनःपुन्येन मोहमुपगच्छन्ननन्तसंसारसागरमभ्येति, तस्मान्निपुणोऽनिपुणो वा मोहमुत्सृज्य सम्यगुत्थानेनोत्थाय सर्वानपि प्राणिनो 5 दुःखाप्रियत्वसुखप्रियत्वाभ्यामात्मतुल्यं पश्यन् पालयेत्, यदा च गृहवास्यपि मनुजः श्रमणधर्मप्रतिपत्त्याद्यानुपूर्व्या प्राणिषु यथाशक्त्या समतया वर्त्तमानः सुत्रतो देवलोकं प्राप्नोति तदा महासत्त्वतया यः पञ्चमहाव्रतधारी यतिस्तस्य किमु वक्तव्यम्, तस्माद्धेयमुपादेयश्च भगवदाज्ञानुरूपं ज्ञात्वा धर्मैकप्रयोजनोऽनिगूहितबलवीर्यः सुप्रणिहितयोगस्सर्वसंवरलक्षणं मार्गमाश्रयेत् ॥ २१॥
कामिनो न कश्चिच्छरणमित्याह
10
स्वजनादिर्न त्राणायातोऽवसरो न त्याज्यः ॥ २२ ॥
वजनादिरिति, मातापित्रादयो धनधान्यादयः करितुरगादयो वा पूर्वोपात्तास तादिकर्मोदयेन प्राप्ते दुःखे न तत आत्मानं त्रातुं समर्थाः, अपि तु तदेकेनैवानुभूयते, उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे मरणे वा समुपस्थिते न स्वजनादयस्त्रातारः, एकाक्येन गत्यागती करोति, एवमेव संसारे सर्वेऽपि प्राणिनः स्वकृतकर्मणैव सूक्ष्मबादरपर्याप्तापर्याप्तादिभेदेन व्यवस्थिताः, 15 तेनैव च कर्मणा नानाविधानि दुःखान्यनुभवन्तो नानायोनिषु गर्भाधानादिदुःखपीडिताः परिभ्रमन्ति एवं विदन् विवेकी द्रव्यक्षेत्रकालभावलक्षणमवसरं विज्ञाय तदुचितमाचरेत्, जङ्गमत्वपचेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणो द्रव्यावसरः, आर्यदेशार्धषड्विंशतिजनपदलक्षणः क्षेत्रावसरः, धर्मप्रतिपत्तियोग्यावसर्पिणीचतुर्थारकादिः कालावसरः, धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपन्युत्साहलक्षणो भावावसरः, तदेवंविधमवसरं परिज्ञायाकृतधर्माणां दुर्लभां कृतधर्माणामपि तद् - 20 तिविराधने उत्कृष्टतोऽपार्ध पुद्गलपरावर्त्तप्रमाणकालेन तु सुलभां बोधिमवाप्नुयात्, तदवाप्तौ च तदनुरूपमेव कुर्यात् ॥ २२ ॥
अथोदीर्णाः प्रतिलोमोपसर्गाः सम्यक् सोढव्या इत्याह
प्रत्युपसर्गासहिष्णुः कश्चिद्रश्यति निन्दति च ॥ २३ ॥
प्रत्युपसर्गेति, उपसर्गो द्दि द्विविधः, औधिकौपक्रमिकभेदात्, अशुभकर्मप्रकृतिजनितः 25 औधिको भावोपसर्गः, अनुदयप्राप्तानां कर्मणामुदयप्रापणमुपक्रमः, यद्रव्योपयोगाद्येन वा द्रव्येणासातवेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति स औपक्रमिक उपसर्गः, यतीनां मोक्षाङ्गसंयमस्थानां संयमस्य प्रतिबन्धकत्वादसावेवात्राधिक्रियते, स च चतुर्विधः दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति, दैविको हास्यप्रद्वेषविमर्शपृथग्विमात्रातश्चतुर्धा, मानुषोऽपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनातञ्चतुर्धा; तैरश्चश्च भयप्रद्वेषाहारापत्यसंरक्षणतश्चतुर्धा, आत्मसंवेदनोऽपि घट्टनातो 30 लेशनातः स्तम्भनातः प्रपाताचेति चतुर्भा, वातपित्तश्लेष्मसंनिपातजनिताश्चेति वा, तथा दिव्यादिश्चतु