SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मुक्ता] सूत्रकृतलक्षणी। न गुणः, प्रत्येकागुणत्वे सति तत्समुदायगुणत्वासम्भवान्न हि प्रत्येकं सिकतायाः स्निग्धतागुणरहितायाः स्निग्धतागुणवत उत्पत्तिदृश्यते, अथवा चैतन्यापेक्षया पृथिव्यादीनामन्यगुणत्वान्न चैतन्य तत्समुदायगुणः, न ह्यन्यगुणानां समुदायेऽपूर्वगुणोत्पत्तिः कापि दृष्टा, अनुभूयते चैतन्यगुणः कायेऽतोऽन्यस्य द्रव्यस्य चैतन्यं गुणः स एव चात्मा । एतेनैव हेतुनेन्द्रियादीनामपि चैतन्यगुणत्वं प्रतिक्षिप्तम् , भूतात्मकेभ्य इन्द्रियेभ्योऽभिव्यक्त्युत्पत्तिभ्यां चैतन्यासम्भवात् , यदपि प्रत्यक्षव्यतिरिक्त प्रमाणं न सम्भवतीत्युक्तं तदपि न युक्तम् , अनुमानादेरपि प्रतिनियतस्वविषयव्यवस्थायां प्रत्यक्षवदविसंवादकत्वेन प्रामाण्यसिद्धेः । अविसंवादकत्वादेव हि प्रत्यक्षस्यापि प्रामाण्यम् , तच्चेतरत्रापि तुल्यम् , अनुमानादितो निर्णीतेऽर्थे विवादाभावात् , किश्चानुमानस्याप्रामाण्ये प्रतीतिसिद्धसकलव्यवहारोच्छेदः स्यात् , अविनाभूतात्प्रतिनियतादेवार्थात् प्रतिनियतमर्थमेव प्रतिपत्तारः प्रतियन्ति न त्वेकस्मादखिलम् । अतीन्द्रियार्थानुमानस्यैव प्रतिक्षेपे प्रत्यक्षतद्भिन्नानामतीन्द्रियाणां प्रामाण्येतरव्यवस्थाया असम्भवः स्यात् , परचेतो- 10 वृत्तीनाश्च तद्व्यापारव्यवहारादिकार्यविशेषात् प्रतिपत्तिरपि न स्यात् , तस्मात्प्रत्यक्षव्यतिरिक्तप्रमाणानामपि सिद्धत्वादस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवदित्याद्यनुमानतो भूतभिन्नस्य चैतन्यगुणाधारस्यात्मनः सिद्धिरिति भावः ॥ ५ ॥ अथाद्वैतवादनिराकरणाय तन्मतमाह__ एक एवात्मा जलचन्द्रवन्नाना भासत इत्यपरे ॥६॥ 15 एक एवेति, यथाऽप्सु प्रतिबिम्बितश्चन्द्र एकोऽपि बहुधा भासते न त्वनेके चन्द्राः, तथैक एवात्मा पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च प्रत्यक्षबाधा, तस्याभेदग्राहकतयैव प्रवृत्तेः, न हि भेदोऽर्थानां सम्भवति, तद्भेदस्य देशकालाकारभेदैरसम्भवात् , न च स्वतोऽभिन्नस्यान्यभेदेन भेद उपपद्यते, न वाऽन्यभेदोऽन्यत्र सङ्क्रामति, देशादीनां भेदस्याप्यन्यदेशादिभेदा देऽनवस्था भवेत् , तेषां भेदस्य स्वतस्त्वे भावभेदस्यापि स्वतःसम्भवेन देशादिभेदाभेदाभ्युपगमो निरर्थकः स्यात् , तस्मा- 20 देकरूप एवात्मा विद्यास्वभावोऽविद्यया च नाना प्रतिभासते, तन्निवर्तकानि शास्त्राणि । अविद्यापि ब्रह्मव्यतिरिक्ता तत्त्वतो नास्ति, रज्ज्वादौ सर्पवत् , अत एवासौ निवर्त्तते, तत्त्वतः सत्त्वे निवृत्त्यसम्भवात्, अविद्या च तत्त्वज्ञानलक्षणप्रागभावरूपा, सा चानादित्वेऽपि तत्त्वज्ञानलक्षणविद्योत्पत्तौ घटादिप्रागभाववन्निवर्त्तते, अविद्या ब्रह्मणो भिन्नाऽभिन्ना वेत्यादिविकल्पस्य वस्तुविषयत्वादवस्तुभूतायामविद्यायां नावसरः, तथा च 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते 25 जलचन्द्रवत् ॥' 'पुरुष एवेदं सर्वमित्याद्यागमवचनान्यप्युपपद्यन्त इति वेदान्तिनः ॥ ६॥ तदेतन्मतप्रतिक्षेपायाह न, व्यवस्थाविलोपादविद्याया अनुपपत्तेश्च ॥७॥ नेति, आत्माद्वैतो न युक्तियुक्त इत्यर्थः, तत्र हेतुमाचष्टे व्यवस्थाविलोपादिति आत्मन एकत्वे कश्चिदेव बद्धः कश्चिदेव मुक्तो न सर्वे, य एव च करोति स एव तत्फलमनुभवति न सर्वे, एव- 30 मादिव्यवस्थायाः परिदृश्यमानाया विलोपो भवेत्, एकस्य बन्धे मोक्षे वा सर्वे बद्धा मुक्ता वा भवेयुर्न
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy