________________
३०४
श्रीअध्यात्मकल्पद्रुमे
जना न प्ररोहन्ति-न सौमनस्यरूपाङ्कुरवन्तो भवन्तीत्यर्थः ।।१४.८।।
रत्न. - इहामुत्र-इति. व्याख्या - इहेति - इहलोके, दुः- दुष्टा वाचः परेषामप्रीतिकराः सावद्या वा वैराय-वैरहेतवे भवन्ति च पुनर्, अमुत्रपरलोके नरकाय, चशब्दाद् वैरायापि भवन्ति, वैरस्य परभवेऽप्यनुगमनाद्, रावण-लक्ष्मण-शम्बूकानामिवेति, तत्रार्थे दृष्टान्तमाह-अग्निना दग्धाः 'समर्थविशेषणाद् विशेष्यं लभ्यते' इति न्यायाद् वृक्षादयः प्ररोहन्ति - अङ्कुरयन्ति, दुर्वाग्दग्धा, दग्धा इव दग्धाः, यथा दग्धा वृक्षा अङ्गारा वा श्यामीभवन्ति तथा मर्मवचस्ताडिता अपि श्यामवदना भवन्तीत्युपचारतो मनुष्या न प्ररोहन्ति - हर्षाङ्कुरान् न प्रादुर्भावयन्तीति ।। १४.८ । ।
[ ४२८] अत एव जिना दीक्षा
कालादाकेवलोद्भवम् । अवद्यादिभिया ब्रूयुर्ज्ञानत्रयभृतोऽपि न ।।१४.९।।
धनवि. - अथ वचनगुप्तेस्तीर्थङ्कराणामप्युपादेयतां दर्शयन्नुपदिशति -
‘अत एव' इति, यत एव सावद्यवचनप्रतिपादनमनिष्टफलाय भवतीत्यनन्तरमुक्तम्अत एव हेतोः, ज्ञानत्रयभृतोऽपि - मति- श्रुता - ऽवधिज्ञानवन्तोऽपि जिना:- तीर्थङ्करा दीक्षाकालाद्-द्व्रतप्रतिपत्तिसमयादारभ्य, आकेवलोद्भवं- केवलज्ञानोत्पत्तिसमयं यावद्, अवद्यादिभिया-जल्पने कदाचिदवद्यं मा भूयादितिभयेन, आदिपदाद् धर्मध्यानविघातभिया च, न ब्रूयुः- न वदन्तीति ।।१४.९।।
रत्न. - अत एव..इति व्याख्या - अत एव अस्मादेव हेताः, जिना - तीर्थकृतो दीक्षाकालात् प्रारभ्याऽऽकेवलोद्भवं केवलस्य ज्ञानविशेषस्योद्भवम् उत्पत्तिं यावत्, अवद्यादीनां भिया-भयेन न ब्रूयुः किंभूताः ? ज्ञानानां त्रयं - मति-श्र -श्रुतादधिलक्षणं बिभ्रतीति ज्ञानत्रयभृतः कथमपि, सत्यपि तुर्ये मनःपर्यवज्ञाने ? - ज्ञानत्रयभृतोऽपीत्युक्तं तदस्य केवल - मनःपर्याययोर्ग्रहणशक्तिमत्त्वादग्रहणं संभाव्यतेऽन्यो विशेषस्तु कुशाग्रधीगम्य इति, "अर्थतो युग्मं" अर्थतो युग्मव्याख्या
•
-