________________
३०३
मिथ्यात्वादिसंवरोपदेशद्वारम्
कूटसाक्ष्यप्रदातुस्ते, श्वपचस्येव को मुखम् ।। पश्येदिति वसुं निन्दन् नारदः स्वास्पदं ययौ ।।६८।। देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम नरकं घोरं, नरनाथो वसुस्ततः ||६९।। यो यः सूनुरुपाविक्षद् राज्ये तस्यापराधिनः । प्रजघ्नुर्देवतास्तं तं, यावदष्टौ निपातिताः ।।७० || इति वसुनृपतेरसत्यवाचः, फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जल्पे-दनृतं प्राणितसंशयेऽपि नैव ।।७१।। इति योगशास्त्रवृत्त्यनुसारेण लिखितेति ।।१४.७ ।।
रत्न:-निरवद्यम् इति. व्याख्या-हे देहिन् ! त्वं निरवद्यं वचो ब्रूहि-जल्प, यतः कारणात् सावधवचनैः-सावधवचनजल्पनैरित्यर्थः, वसुराजादयो द्रुतं शीघ्रं, घोरं भयानकं नरकं प्रयाता-गताः, वसुराजादीनां सम्बन्धस्तु बहुषु शास्त्रेषु विद्यमानत्वान्न लिखितोऽस्ति, परं ततस्तद् वाचकगीतार्थमुखाद् वाऽवसेय इति ||१४.७।।
[४२७] इहामुत्र च वैराय,
दुर्वाचो नरकाय च । अग्निदग्धाः प्ररोहन्ति,
दुर्वाग्दग्धाः पुनर्न हि ||१४.८।। धनवि.-पुनर्वाग्गुप्त्यभावे ऐहिकमामुष्मिकं चानिष्टफलं दर्शयन्नुपदिशति -
'इहामुत्र च' इति, दुर्वाचो-दुष्टवचनानि, इह-इह भवे, च पुनर्, अमुत्रपरलोके, वैराय-विरोधाय भवन्तीति, च पुनर्, नरकाय-नरकदुःखाय भवन्ति; दुर्वाचो वैराय भवन्तीत्युत्तरार्द्धन समर्थयति, हि-यतः कारणाद्-अग्निदग्धावनिप्रज्वलिता वनस्पत्यादयः प्ररोहन्ति-अङ्कुरयन्ति, पुनर्दुर्वाग्दग्धा-दुष्टवचनदग्धा