________________
२७०
श्रीअध्यात्मकल्पद्रुमे
पदार्थैः सह मिलेत्-संयुक्तं भवेत्, तदात्मकं तत्पदार्थमयं भवेदिति हेतोः, प्रमादचौरै:विषयादितस्करैर्मिलत्-संयुक्तं भवन्मनो वार्यतां निवार्यतामिति कर्मोक्तौ च पुनः शीलाङ्गमित्रैः अष्टादशसहस्रशीलाङ्गलक्षणैः सुहृद्भिः सह-अनिशं- निरन्तरं स्वं मनोऽनुषञ्जय - संयोजय, अष्टादशसहस्रशीलाङ्गानि च
-
[३८२] जे नो करंति मणसा णिज्जियआहारसन्नसोइंदी । पुढवीकायारंभं खंतिजुआ ते मुणी वंदे ।। [ ]||
[३८२] १ खंती-२ अज्जव - ३ मद्दव -४ मुत्ती - ५ तव- ६ संजमे य बोद्धव्वे | ७ सच्चं - ८ सोयं - ९ आकिंचणं च - बंभं - १० च जइधम्मो । । [ दशवै.नि. २४८] ।। इत्यादिगाथासूचितानि, शीलाङ्गस्योपलक्षणत्वेन संयमादिशेषसप्तदशकपरिग्रहः तद्विस्तरश्च पञ्चाशकादिभ्योऽवसेयः ।। १३.४२ ।।
रत्न.-अथ सुख-दुःखयोर्मनसोऽधीनत्वेन तत्सङ्गतावेव मनो योजनीयमित्युपदिशति
-
मनोवशस्ते इति. व्याख्या - हे मुने ! सुख - दुःखाभ्यां सङ्गमो-मीलनं मनसो वशः-आधीनोऽस्ति, तुरितिविशेषे, तन्मनो यैः सह मिलेत्, तदात्मकं भवेत्तत्स्वरूपकं भवेद्, दुष्टैः सह मिलद् दुष्टं भवेत्, साधुभिः सह मिलत् साधु भवेत्, अनिलवद्, यथाऽनिलः कनकतरुपुष्पैर्मिलन् तद्गन्धवासितो भवेत्, चम्पकादिपुष्पैश्च मिलन् तद्गन्धवासितो भवेदित्यर्थः इतिहेतोस्तन्मनः प्रति, प्रमादा एव चौराः संयमधनापहारित्वात्, तैः सह मिलद् वार्यताम् । तद्वारणोपायमाह-तथा शीलस्य - संयमस्याङ्गानीव शीलाङ्गानि तान्येव मित्राणि, तैः शीलाङ्गमित्रैः-अष्टादशसहस्रप्रमाणैः सहानुषञ्जय-सङ्ग मैत्रीं कारय, कथं? अनिशं-निरन्तरं, यथा तव सुखेनैव सङ्गमो भवेदिति ।।१३.४२।।
,
I
[३८३] ध्रुवः प्रमादैर्भववारिधौ मुने !,
तव प्रपातः परमत्सरः पुनः । गले निबद्धोरुशिलोपमोऽस्ति चेत्, कथं तदोन्मज्जनमप्यवाप्स्यसि ? ।।१३.४३ ।।