________________
यतिशिक्षोपदेशद्वारम्
२६९ इति रूपं पाठान्तरं ज्ञेयम्, अत्र दग्धमिति-विनष्टं, विहन्य इति हनंक् हिंसा-गत्योः [है.धा.११००] इत्यस्य वर्तमानात्मनेपदास्मदर्थैकवचनान्तस्य साधुरिति, शेषं स्पष्टं पूर्ववद्, अत्र पाठद्वयेऽपि युष्मदर्थाऽस्मदर्थकृतो विशेष इति ।।१३.४१ ।। - रत्न.-अथ 'वाञ्छा महती, सामग्री तु तथाविधा न' इति यतिनं ज्ञापयन्नाह
हतं मनस्ते...इति, व्याख्या-हे मुने ! ते-तव मनः कुविकल्पानां जालानि कुविकल्पजालानि, तैर्हतं, च पुनर्, वचोऽपि-वागप्यवद्यैः, अवद्यकारणत्वान्मृषाभाषाद्यैर्हतं तथा वपुः-शरीरं प्रमादैः-प्रमादासेवनैर्हतं-विनाशितमित्यर्थः, एतत्कथनेन तिसृणां गुप्तीनां खण्डनमुक्तं, तथा गुप्तीविनापि त्वं, आम|पध्यादिका लब्धीः प्रति, च पुनर्मन्त्रविद्यादिकाः सिद्धीः प्रति वाञ्छन्, हाहा इति खेदे, मनोरथैरेवमनोरथकरणैरेवेत्यर्थः, हतोऽसि-पीडितोऽसि, तन्दुल-दुग्ध-घृत-शर्करासामग्रीमन्तरा पायसभोजनेच्छावन्मुधैव लब्धि-सिद्ध्यादिवाञ्छेत्यर्थः । दग्धं मनो मे इति पाठान्तरव्याख्या-प्रथमा त्रिपदी दग्धं मनो मे इतिकथनात अस्मच्छब्दप्रयोगेण व्याख्यातव्या, तथाऽप्यहं लब्धीः सिद्धीश्च वाञ्छन् हहा इति खेदे, मनोरथैरेव विहन्ये, विहतः-पीडितः परं लब्धि-सिद्धयो न प्राप्ताः इति चतुर्थपदव्याख्यानं, दग्धमितिकथनेन कविना कुविकल्पजालानामग्निवद् दुष्टत्वं ज्ञापितमिति ।।१३.४१।।
[३८०] मनोवशस्ते सुख-दुःखसङ्गमो
मनो मिलेद् यैस्तु तदात्मकं भवेत् । प्रमादचौरैरिति वार्यतां मिलच्
छीलाङ्गमित्रैरनुषञ्जयाऽनिशम् ।।१३.४२।। धनवि.-अथ गुप्तित्रये मनोगुप्तिमेव केवलामुपदिशति -
'मनोवश' इति, ते-तव सुख-दुःख-सङ्गमः-सुख-दुःखप्राप्तिर्मनोवश:चित्ताधीनोऽस्ति, मनसः शुभाशुभ-व्यापारैः शुभाशुभकर्मबन्धः, तेन च सुखदुःखप्राप्तिरिति परम्परया मनोवशः सुख-दुःख-सङ्गम इत्यर्थः; तु पुनर्मनो यैः १. धनवि० टीकाप्रतौ '०षङ्गय' इति पाठः मूलत्वेन, टीकायामपि विद्यते. सं. ।