________________
यतिशिक्षोपदेशद्वारम्
धनवि . - नन्वेवं परीषहसहने स्वशरीरदौर्बल्यं स्यादिति कः परीषहसहनादौ
प्रवर्त्तते ? इत्याशङ्कायामाह
—
·
'मुने ! न किं' इति, हे मुने ! - हे साधो ! एनं प्रत्यक्षं, नश्वरं-विनाशशीलम्, अस्वः-अनात्मीयश्चासौ परभवे सहगमनाभावात् देहमृत्पिण्डश्चशरीररूपमृत्तिकासङ्घातः तम् - अस्वदेहमृत्पिण्डं, निपीड्य नितरां पीडाविषयं विधाय, भवदुःखराशेः-सांसारिकदुःखसमूहाद् भीतीः- भयानि हित्वा त्यक्त्वा शैवसुखंमोक्षसम्बन्धि सुखम्, आत्मसाद्- आत्मायत्तं किं न करोषि ?, कैर्हेतुभूतैः ? सुतपांसि च षष्ठाष्टमादीनि व्रतानि च हिंसाविरमणादीनि तानि आद्यानिप्रथमानि येषां ते तथा तैः सुतपो-व्रताद्यैः, आचारैरितियावद्, अत्र 'आद्य 'पदेनोपसर्गपरीषहादिसहनपरिग्रहः । ।१३.३१ ।।
·
रत्न. -अथ मुनिं प्रति तपो-व्रतादिषूद्यमयति
मुने ! न किम्..इति. व्याख्या - हे मुने ! त्वं शिवस्येदं शैवं तच्च सुखं च शैवसुखं प्रति, आत्मसाद् - आत्मायत्तं किं न करोषि ?, अपि तु कुरु, किं कृत्वा ? - निपीड्य-पीडयित्वा, कं ? देह एव मृत्पिण्डः, स्वः- स्वकीयः, न स्वः अस्वः, अस्वश्चासौ देहमृत्पिण्डश्च - अस्वदेहमृत्पिण्डः, तं, एनं प्रत्यक्षतो
-
-
२५९
·
दृश्यमानं कीदृशं ? - नश्वरं नाशशीलमत एवास्वं यः कश्चन स्वामिनं मुक्त्वा याति, स स्वः कथमुच्यते ? इति अस्वेति विशेषणं युक्तम् कैः ? - तपश्च व्रतानि च तपो-व्रतानि, सु-सुष्ठु च तपो - व्रतानि च सुतपो - व्रतानि सुतपो-व्रतानि आद्यानि येषु तैः, जिनाज्ञासंयुक्ततपो-व्रताद्यैरित्यर्थः, सुशब्दग्रहणेना- ऽज्ञानकष्टेन शरीरपीडनं निरस्तं, पुनः किं कृत्वा ? - त्यक्त्वा, काः प्रति ? - भीतीःभयानि प्रति, कस्य ? - भवदुःखराशेः - संसारदुःखसमूहस्येति ।।१३.३१ ।।
[३६७] यदत्र कष्टं चरणस्य पालने,
परत्र तिर्यग्-नरकेषु यत् पुनः । तयोर्मिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्याऽन्यतरज्जहीहि तत् ।।१३.३२।।