________________
२५८
श्रीअध्यात्मकल्पद्रुमे [३६५] शीता-ऽऽतपा-ऽऽद्यान् न मनागपीह,
परीषहाँश्चेत् क्षमसे 'विषोढुम् । कथं ततो नारक-गर्भवास- ..
दुःखानि सोढासि भवान्तरे त्वम् ! ।।१३.३०।। धनवि.-नमु वस्त्रादिबाहुल्यं शोभार्थं मा भवतु, शीता-ऽऽतपादिदुःसहपरीषहनिवारणार्थं भवतु-इत्याशङ्कायामुपदिशति -
'शीता-ऽऽतपाद्यान्' इति, चेद्-यदि, इहभवे मनागपि-किञ्चनापि शीताऽऽतपा-ऽऽद्यान् परीषहान् "खुहा-पिवासा" [ ] आदिगाथा-सूचितान् विषोढुंविशेषेण क्षन्तुं न क्षमसे-न समर्थो भवसि, ततः तदा भवान्तरे-परभवे, नारकगर्भवासदुःखानि-नरक-जननीजठराभ्यन्तरस्थितिदुःखानि कथं ? - केन प्रकारेण, त्वं सोढासि-क्षन्तासि, सहिष्यसीत्यर्थः ।।१३.३० ।।
रत्न.-अथ परीषहसहनमाश्रित्योपदिशति -
शीता-ऽऽतपा-ऽऽद्यान्. इति. व्याख्या-हे मुने ! त्वं इह प्रवचने संयमे वा चेद्-यदि मनागपि परीषहान् द्वाविंशतिं प्रति विषोढुं-सहनाय न क्षमसे-न शक्तो भवसि, परीषहान् कान् ? - शीतातपाद्यान्-शीतातपप्रमुखान् ततः-तर्हि नारकस्य तथा गर्भवासस्य च दुःखानि प्रति भवान्तरे त्वं कथं सोढासि ? - सहिष्यसि, इहत्यशीतातपेभ्यो 'बहुगुणत्वात् तेषां, तत एव परीसहदुःखानां सहनमेव वरं मन्यस्वेति ।।१३.३०।। [३६६] मुने ! न किं नश्वरमस्वदेह
मृपिण्डमेनं सुतपो-व्रताद्यैः ।। निपीड्य भीतीर्भवदुःखराशेर्हित्वाऽऽत्मसाच्छैवसुखं करोषि ? ||१३.३१।।
१. द्वयोरपि टीकयोः प्रतिषु मूलत्वेन, टीकायां च 'विसोढुं' पाठः । २. अनेक गणुं होवाथी ।