________________
२२१
देव-गुरु-धर्मशुद्धिद्वारम्
धनवि.-अथानन्तरोक्तमेवार्थं व्यत्ययेनाह - 'जिनेष्वभक्तिः' इति जिनेषु-वीतरागेषु अभक्तिः-आशातनाकरणं, च पुनर्यमिना-सुसाधूनाम्-अवज्ञा-अवहेला, च पुनः, कर्मसु-व्यापारेषु अनौचित्यंअनुचितप्रवृत्तिः, च पुनर्, न विद्यते धर्मः-सुकृतं येषां ते-अधर्माणः, तेषां सङ्ग:सङ्गतिर्-अथवा न धर्मोऽधर्मः-'तदन्य-तविरुद्ध-तदभावेषु नञ् वर्त्तते' इति [ ] वचनात्, पापं, तस्य सङ्गः-सङ्गतिः, च पुनः पित्राद्युपेक्षा-पितृ-मातृप्रभृतीनामुपेक्षा-शुश्रूषायामुपेक्षणं, च पुनः परवञ्चनं-परेषामात्मव्यतिरिक्तानां वञ्चनंविप्रतारणम्, एते उक्ता दोषाः पुंसां-पुरुषाणां समन्तादिह-परत्र च विपदो-वधबन्धाऽऽदिका आपदः सृजन्ति-कुर्वन्तीत्यर्थः ।।११.१२।।
रत्न.-एतद् [पूर्वोक्तम्] अर्थं च व्यत्ययेन निर्दिशति -
जिनेष्वभक्तिः इति. व्याख्या-जिनेषु-वीतरागेष्वभक्तिस्, तथा यमिनां-यतीनामवज्ञाअवगणनं तथा कर्मसु श्राद्धदिन-कृत्य-यतिदिनकृत्यादिशास्त्रेक्तेषु, अनौचित्यम्औचित्याभावः यथायोग्यमकरणमित्यर्थः तथा नञोऽत्र विरुद्धार्थवाचकत्वाद् धर्म-धर्मिणोरभेदोपचाराच्चाधर्मिभिः-मिथ्यादृष्टिभिः कुमत्यादिभिः सह सङ्गःपरिचितिः -अधर्मसङ्गः विवाहकरणेन व्यापारकरणेन मैत्रीकरणेन च, तथा पित्रादीनां वृद्धानामुपेक्षा-उपेक्षणमवगणनं तथा परेषां कूटतुला-कूटमानतत्प्रतिरूपकरण-कूटलेखलिखनादिना वञ्चनं, च पुनरर्थे, एतानि पुंसां विपदः समन्तादिति समन्ततः सर्वप्रकारेण सृजन्ति-कुर्वन्ति ।।१२.१२ ।।
[३२७] भक्त्यैव नाऽर्चसि जिनं सुगुरोश्च धर्म,
नाकर्णयस्यविरतं विरतीर्न धत्से । सार्थं निरर्थमपि च प्रचिनोष्यघानि,
मूल्येन केन तदमुत्र समीहसे शम् ? ||१२.१३।। धनवि.-अथ शुद्धदेव-गुरु-धर्मादिसमग्रसामग्री प्राप्य यो न यतते, तं प्रत्युपदिशति - १. योग्याऽक० मु० ।