________________
२२०
[ ३२५] दाक्षिण्य- लज्जे गुरु-देवपूजा, पित्रादिभक्तिः सुकृताभिलाषः । परोपकार-व्यवहारशुद्धी,
नृणामिहामुत्र च संपदे स्युः ।।१२.११ ।।
धनवि.—अथ गुरु-देवाऽर्चनानां तत्सहचरितानामन्येषामपि गुणानां माहात्म्यं वर्णयन्नुपदिशति
-
श्रीअध्यात्मकल्पद्रुमे
1
'दाक्षिण्य' इति, दाक्षिण्य च लज्जा च दाक्षिण्य- लज्जे प्रतीते, तथा गुरुदेवयोः-सद्गुरु-वीतरागयोः पूजा-अर्चा, सा च द्रव्य-भावभेदाभ्यां द्विधा, तत्र द्रव्यपूजा पुष्पा-ऽऽहारादिभिः, भावपूजा च स्तुति - स्तोत्रादिभिः, तथा पित्रादिभक्तिःपित्रादीनां मातृ-पितृ-बृहद्भ्रातृ-प्रभृतीनां भक्तिः - सेवा तथा सुकृतस्य- पुण्यकर्मणोऽभिलाषो-मनोरथः, तथा परोपकारश्च परेषामापत्पतितानामुपकार-उद्धरणं, शुद्धिश्च-न्यायसंपन्नविभवादिना व्यवहरणं, ततो द्वन्द्वः - परोपकार-व्यवहारशुद्धी, एते उक्ता गुणा, नृणां-मनुष्याणां, इह-इहलोके च पुनर् - अमुत्र-परलोके संपदेऐहिक-पारलौकिकसुख-संपत्तये स्युः - भवन्तीत्यर्थः ।।१७५।।११।।
व्यवहार
रत्न. - अथैतानि संपदे भवन्तीत्याह
-
दाक्षिण्य- लज्जे.. इति. व्याख्या- दाक्षिण्यं च लज्जा च दाक्षिण्य- लज्जे, दाक्षिण्यंअनुकूलता तथा गुरु-देवयोः पूजनं तथा पिता आदौ येषां ते पित्रादयः, तेषां भक्तिः, आदिशब्देन मातृ-वृद्धभ्रातृ-भगिनी - पितृभ्रात्रादीनां ग्रहणं, तथा सुकृतेपुण्येऽभिलाषो वाञ्छा तथा परोपकारश्च व्यवहारशुद्धिश्च परोपकार-व्यवहारशुद्धी, एतानीह लोके च पुनर् - अमुत्र-परलोके, संपदे- विभूतये भवन्ति, अर्थादेतद्वतः पुरुषस्येति ।।१२.११।।
[३२६] जिनेष्वभक्तिर्यमिनामवज्ञा, कर्मस्वनौचित्यमधर्मसङ्गः । पित्राद्युपेक्षा परवञ्चनं च,
सृजन्ति पुंसां विपदः समन्तात् ।।१२.१२।।