________________
देव-गुरु-धर्मशुद्धिद्वारम्
अथ सांप्रतं भरतक्षेत्रे साक्षाज्जिनाभावे गुरुतत्त्वशुद्धेर्देव-धर्मतत्त्वयोः शुद्धिर्भवतीति प्रथमं गुरुतत्त्वशुद्धिमाश्रित्याह -
तत्त्वेषु सर्वेषु...इति., व्याख्या- हे आत्मन् ! सर्वेषु तत्त्वेषु, गुरुः प्रधानंमुख्यं तत्त्वं वर्त्तते, हि यस्माद्धेतोः, हितायेति हितार्थाः, हितार्थाश्च ते धर्माश्च हितार्थधर्माः, तस्य गुरोरुक्तिः - वचनं तदुक्तिः, तया साध्याः - साधनीया वर्तन्ते, तमेव गुरुमितिहेतोरपरीक्ष्य-परीक्षां विनैव श्रयन् सन् त्वं मूढो मूर्खो धर्मे प्रयासान् वृथैव कुरुषे तेन गुरुं परीक्ष्य गृहाणेति ।।१२.१ ।।
धनवि . -
[३१४] भवी न धर्मैरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः । रोगी हि कल्यो न रसायनैस्
तैर्-येषां प्रयोक्ता भिषगेव मूढः ।।१२.२।।
. - अथ गुरुसदोषतायां धर्मस्यापि सदोषता भवतीत्याह
२११
'भवी' इति, अविधिप्रयुक्तैः वितथाचरणप्रयोगवद्भिर् धर्मैः - दानादिकैर्, भवीप्राणी शिवं-मोक्षं न गमी-न गमनशीलो भवतीति, येषु धर्मेषु गुरुः शुद्धो-निर्दोषो नास्ति; अत्र दृष्टान्तमाह- हि यतः कारणाद् रोगी-आतुरस्, तैः रसायनैःऔषधविशेषैर्न कल्यो - नीरोगो न भवति, येषां रसायनानां प्रयोक्ता-उपदेष्टा भिषगेव-वैद्य एव मूढः-अज्ञानोऽस्तीत्यन्वयः । अत्र संसारि - रोगिणोर्, धर्म-रसायनयोर्, गुरु- भिषग्वरयोः परस्परं दृष्टान्त - दान्तिकयोजना कार्येति भावः ।।१२.२।।
रत्न. - अथ गुरावशुद्धे धर्मोऽप्यशुद्ध एवेत्याह
भवी न धर्मैः..इति., व्याख्या-भवी - संसारी जीवः, अविधिकृतैर्धर्मैर् हेतुभिः शिवं-मोक्षं न गमी-न गमनशीलः येषु धर्मेषु गुरुरुपदेष्टा शुद्धो-दोषरहितो नास्ति, एतदेव दृष्टान्तयति - हि यस्मात् कारणाद् रोगी तैः रसायनैः कल्यो
१. साक्षाद् भाव जिना० मु० । २. मूलेऽपि 'मूढो' इति पाठः । ३. धर्मे प्र० मु० ।
,
-