SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १२. देव-गुरु-धर्मशुद्ध्यधिकार: [३१३] तत्त्वेषु सर्वेषु गुरुः प्रधानं, . हितार्थिधर्मा हि तदुक्तिसाध्याः | श्रयंस्तमेवेत्यपरीक्ष्य मूढ !, धर्मप्रयासान् कुरुषे वृथैव ।।१२.१।। धनवि.-अनन्तद्वारे मात्सर्यादिदोषरहितः शुद्धधर्मो मोक्षफलो भवतीत्युक्तम्, स च धर्मः शुद्धदेव-गुरु-धर्मपरिज्ञाने तदाश्रयणे च विवक्षितफलसाधको भवतीति देव-गुरु-धर्मशुद्धिद्वारमभिधित्सुराह-अथ श्रीदेव-गुरु-धर्मशुद्धिमधिकृत्य किञ्चिदुपदेश इति, स्पष्टम् । नन्वनन्तरद्वारेऽपि धर्मशुद्धिरुक्ता, पुनरत्र धर्मशुद्धिप्रतिपादने पौनरुक्त्यं स्यादिति चेत् ? न, अनन्तद्वारे शुद्धस्यापि धर्मस्य मत्सरादिना कालुष्यं न कर्त्तव्यमिति धर्मशुद्धिरुक्ता, अत्र च षड्दर्शनसम्बन्धिशास्त्रप्रतिपादितधर्माणां मध्ये को धर्मः शुद्ध इति भेदप्रतिपादनेन पौनरुक्त्याभावात्; यद् वाऽनन्तद्वारे केवलाया धर्मशुद्धेः प्रतिपादनेऽपि देवगुरुशुद्धिसाहचर्येण धर्मशुद्धेः प्रतिपादनेन पौनरुक्त्याभावादिति। तत्रापि पूर्वं सांप्रतीनकाले गुर्वायत्तौ देव-धर्माविति गुरुशुद्धिमधिकृत्योपदिशति - सर्वेषु-समस्तेषु तत्त्वेषु-देव-गुरु-धर्मलक्षणेषु, गुरु:-गुरुतत्त्वं प्रधान मुख्यं भवति, हि यतः कारणात्, हितार्थिधर्माः-हितं-स्वोपकारकमान्मोक्षः, स एवार्थः-प्रयोजनं येषां ते च ते धर्माश्चेति, यद्वा हितार्थिनां-मोक्षार्थिनां पुरुषाणां समाचरणीया धर्मा दानादयः, तस्य गुरोरुक्ति-वचनं तेन साध्याः प्रायो भवन्ति; हे मूढ ! - हे मूर्ख ! इति हेतोस्तमेव गुरुमपरीक्ष्य-'अयं गुरुः शुद्धधर्मोपदेष्टा'अयं चाशुद्धधर्मोपदेष्टा इति विवेकमकृत्वा, श्रयन्-भजन् धर्मप्रयासान्-धर्मकर्मश्रमान् वृथैव कुरुषे इति ।।१२.१।। रत्न.-अथ देव-गुरु-धर्मशुद्धिमधिकृत्य द्वादशाधिकारे किञ्चिदुपदिश्यते,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy