________________
धर्मशुद्ध्युपदेशद्वारम्
१९७ कलुषीकुरु, कैः ? - प्रमादश्च मानश्च उपधिश्च 'मत्सरश्च-प्रमाद-मानोपधिमत्सराः, ते आदौ येषां तानि तैः, प्रमाद-मानोपधिमत्सरैः, प्रमादो-मद्यादिः, मानः-अहंकारः, उपधिः-छद्म, मत्सरः-परसंपत्त्यसहनं, तदादिकारणैरित्यर्थः, एतददष्टान्तेन दृढयति-हि निश्चितं विरुद्धद्रव्यै-रेण्वादिभिर्मिश्रितमौषधं, आमयापहंरोगहन्तृ न स्यात् तथा प्रमादादिभिः कलुषितो धर्मो भवापायविनाशनाय न स्यादित्यर्थः ||११.१।।
[२९९] शैथिल्य-मात्सर्य-कदाग्रह-क्रुधो
ऽनुताप-दम्भा-ऽविधि-गौरवाणि च । प्रमाद-मानौ कुगुरुः कुसङ्गतिः,
श्लाघार्थिता वा सुकृते मला इमे ||११.२।। धनवि.-अथात्र चिरन्तनग्रन्थसम्मतिं दर्शयितुमाह-यत इति, यतः कारणात् पूर्वाचार्यैरिति प्रतिपादितमस्तीत्यर्थः, -
'शैथिल्य' इति इमे नामग्राहं वक्ष्यमाणाः सुकृते-पुण्यकर्मणि मला-मलप्राया वस्तुशोभापहारिणो भवन्तीत्यर्थः, तानेव नामग्राहं दर्शयति-शैथिल्यं च-क्रियायां शिथिलता प्रमादो वा, मात्सर्यं च-परगुणासहनं, कदाग्रहश्च-असद्ग्रहदाढ्य, क्रुच्च-क्रोधः, ततो द्वन्द्वे शैथिल्य-मात्सर्य-कदाग्रह-क्रुधः, च पुनर्, अनुतापश्चधर्मकर्मकरणानन्तरं पश्चात्तापो, दम्भश्च-धर्मकर्मणि माया, विधिश्च-शास्त्रोक्तमर्यादया प्रवर्त्तनं, तदभावः अविधिः, गौरवं च-'मयेदं सुकृतं कृतं, ततोऽहं महान् इति स्वयं चिन्तनं, लोके महत्त्वप्राप्तये परेषां पुरस्तात् प्रकाशनं वा, ततो द्वन्द्वे अनुताप-दम्भाऽविधि-गौरवाणि; च पुनः-प्रमादश्च मानश्च प्रमाद-मानौ प्रसिद्धौ; च पुनः-कुगुरु:-सम्यग्ज्ञान-दर्शन-चारित्ररहितो धर्माचार्यः, कुसङ्गतिः-नट-विटादिभिरुत्सूत्रभाषिभिर्वा सह मिलनं, च पुनः-श्लाघार्थिता-परकृतस्वप्रशंसास्पृहालुता, वा इति पूर्वोक्तसर्वसमुच्चये । भावार्थस्तु इमे शैथिल्यादयः सर्वेऽपि पुण्यकर्मणि १. मत्सरादि - इति पाठो मूलत्वेन गृहीतः, पाठोऽयं सुष्ठुभाति, दृश्यतां ११.३. तमे पद्ये 'मत्सरोज्झी' इति पदेन मत्स्यरस्य स्वतन्त्रतया त्यागोपदेशः (सं.) ।
C-14