________________
११. धर्मशुद्ध्युपदेशाधिकारः
[२९८] भवेद् भवापायविनाशनायः, तमज्ञ ! धर्मं कलुषीकरोषि किम् ? । प्रमादमानोपधिकारणादिभिर्
न मिश्रितं ह्यौषधमामयापहम् ।।११.१।।
धनवि.—अथानन्तरमुक्तः सामान्यतो वैराग्यस्योपदेशः, तच्च वैराग्यं शुद्धधर्मवासनाधीनं भवतीत्यवसरायातं धर्मशुद्ध्युपदेशरमुपदर्शयन्नाह - अथ धर्मशुद्ध्युपदेशःस्पष्टम् । तत्रापि प्रथमं शुद्ध एव धर्मो भवापायविनाशनाय भवतीति धर्मशुद्धिमुपदिशति
-
'भवेद्' इति यो धर्मो भवापायविनाशनाय भवः संसारः, तत्संबन्धिनो येऽपायाजन्म-जरा-मरणलक्षणा उपद्रवाः तेषां विनाशनाय - विध्वंसाय भवेद् इति, हे अज्ञ ! - हे मूर्ख ! तं धर्मं, प्रमादश्च प्रसिद्धो, मानश्च-अह्ङ्कारः, उपधिश्चमाया, ततो द्वन्द्वः, ते एव कारणानि - निमित्तानि, आदौ - प्रथमं येषां तानि तथा तैः प्रमाद-मानोपधिकारणादिभिः, आदिपदाल्लोभप्रभृतिश्च, किम ? इति प्रश्ने कलुषीकरोषि ? - मलिनीकरोषि ? ; हि यतः कारणात् मिश्रितं रोगोत्पादकद्रव्येण संपृक्तम्, औषधं-रोगापहारि भेषजम् आमयापहं रोगोच्छेदकं न भवतीति; भावार्थस्तु यथौषधं विरुद्घौषधमिश्रितं रोगापहाराय न भवति तथा प्रमादादिभिः कलुषितो धर्मः संसारविनाशाय न भवतीति ।।११.१।।
रत्न. - अथैकादशो धर्मशुद्ध्युपदेशाख्योऽधिकारो व्याख्यातुं प्रस्तूयते - अथेदृशं धर्ममेभिर्मा मलिनीकृर्वित्युपदिशति
भवेद् भवापाय..इति व्याख्या-यो भवे- संसारे अपाया - विघ्नाः, तेषां विनाशनाय भवेत्, हे अज्ञ ! हे मूर्ख ! तं धर्मं किं कलुषीकरोषि ?, अपि तु मा
-
१. धर्मसदुम. मु० ।