SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रु पद्यसन्दर्भेण भाव्यते' इत्यनेन प्रतिपाद्य - प्रतिपादकभावः संबन्धो दर्शितः, परमार्थिकोपदेश्यतया' इत्यनेन निःस्पृहोऽधिकारी दर्शितः इति पीठिकाव्याख्या । अथ शान्तरसभावना कथं भवतीत्याकाङ्क्षायामाह तद्यथा-तद् यथा भवति तथाऽनन्तरमेव दर्श्यत इत्यर्थः । रत्नचन्द्रगणिकृता वृत्तिः - ८ श्रीगुरुभ्यो नमः । परमगुरु-गच्छाधिराज-श्रीविजयदेवसूरिचरणकमलेभ्यो नमः । महोपाध्यायश्रीशान्तिचन्द्रगणिगुरुभ्यो नमः || [१३] प्रणतसुरासुरकोटी-कोटीरमेणोमयूखमहितपदम् । श्रीमत्सुपार्श्वसार्वं मण्डपदुर्गावनीरत्नम् ।।१।। [१४] नत्वाऽध्यात्मसुरद्रुम - विवृतिमहं स्वल्पबुद्धिबोधार्थम् । श्रीविजयदेवसूरि-प्राप्तादेशस्तनोमि मुदा ||२|| युग्मम् । तत्रोपन्याससूत्रमिदम्-अथायम् इति, व्याख्या - अथशब्दो मङ्गलार्थ आनन्तर्यार्थश्च, आनन्तयार्थे कथमिति ? पूर्वं श्रीमुनिसुन्दरसूरिणा गुर्वावल्यपरपर्यार्यःत्रिदश-तरङ्गिणीनामा गुरुपट्टक्रमो वर्णितः, तेन' अथेति - तदनन्तरं मया श्रीमुनिसुन्दरसूरिणा, रसेष्वधिराजो रसाधिराजः, पद्यसन्दर्भेण -पद्यगुम्फेन, भाव्यतेमनसि चिन्तितो वाग्विषयीक्रियत इत्यन्वयलेशः । तत्र रसाधिराजत्वं पौरदस्यापि भवतीति-शान्त इति नाम यस्य स शान्तनामा, रसेषु १ - श्रृङ्गार, २- हास्य, ३-करुण, ४-रौद्र, ५- वीर, ६ - भयानक, ७- बीभत्सा, ८-ऽद्भुत, ९ - शान्तेषु अधिराजत्वमस्यैव वर्त्तते इति, मैदादिषु जैनसाधुषु साक्षादुपलभ्यमानत्वात् अयम्-इति । किंलक्षणः ? ज्ञान-दर्शन-चरणरूपा श्री : - सम्पद्विद्यतेऽस्माद्, अनन्ता सुखरूपा श्रीः- सम्पद् विद्यते वाऽस्मात् स श्रीमान् भवतीति । पुनः कीदृक् ? - सकलान्यागमादिसुशास्त्राण्येवार्णवः, तस्योपनिषद्भूतः - सारभूतः, अत एव सुधारसः - अमृतरसः, १. णि मु० । २. र्थी मु० कार्य:- सं. । ३. रसः स्वादे... पारदेऽपि च (हैम. अनेका. ५७३-५७४) ४. शृङ्गार... चेत्यष्टौ नाट्ये रसः स्मृताः (का.प. ४.२३) मां मम्मटे 'रस' जणाव्या पछी स्वतंत्र (कारिका ३५मां) रूपे शान्त ने नवमा रसरूपे स्वीकार्यो छे. ५. अहं आदौ येषां ते इति विग्रहः
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy