SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपीठिका तत एव तृतीयं पञ्चम्यन्तं हेतुमाह - "सर्वरससारभूतत्वात्"-सर्वरसेषु शृङ्गारादिषु सारभूतत्वात्-प्रधानभूतत्वात् सर्वरसप्रधानत्वात्, सर्वरसप्रधानता च शाश्वताऽनन्ताऽऽनन्दहेतुत्वेन सर्वदा सरसत्वेन वेति । ___ अत्र हेतुत्रये पौर्वापर्येण हेतुहेतुमद्भावो यथा-यतः शान्तरस ऐहिकामुष्मिकानन्तानन्दसाधनं, तत एव पारमार्थिकोपदेश्यः, यतः पारमार्थिकोपदेश्यस्तत एव सर्वरससारभूतः । यद् वा चा समुच्चयार्थोऽन्त्यहेतुद्वये योज्यः, तेनैहिकामुष्मिकानन्तानन्दसंदोहसाधनतया पारमार्थिकोपदेश्यतया च सर्वरससारभूतत्वाच्चेति, अनेनान्यरसभावनपरिहारेण शान्तरसस्यैव भावनयोग्यता रसाधिराजता च दर्शितेति। अथ 'पद्यसंदर्भण'इति विशेष्यं विशिनष्टि - "शान्तरसभावनात्माऽध्यात्म-कल्पद्रुमाभिधानग्रन्थान्तरग्रथननिपुणेन"-तत्र शान्तरसस्य भावनं-व्यक्तीकरणं, तदेवात्मा-स्वरूपं यस्य, स चासौ अध्यात्मकल्पद्रुमश्च, स एव नाम-अभिधानं यस्य, तदेव ग्रन्थान्तरं-शास्त्रान्तरं प्रकरणमित्यर्थः, तस्य ग्रथनं-विरचनं, तत्र निपुणो-दक्षोऽर्थाद् योग्यः, तेन । अत्राध्यात्ममिति च आत्मानमधिष्ठितमध्यात्मम्-आत्मन्येव मनोव्यापारः, कथमयमात्मा बध्यते ? कथं वा मुच्यते ? इति, ग्रन्थान्तरत्वं च चिरन्तनाध्यात्मशास्त्रान्तरपेक्षया, एकस्माद् ग्रन्थादन्यो ग्रन्थो ग्रन्थान्तरमिति व्युत्पत्तेः । अथ विशेष्यमाह-"पद्यसन्दर्भेण" पद्यं-छन्दः, तस्य सन्दर्भेण-नानाछन्दोरचनया, भाव्यते-भावनाविषयीक्रियते इति, अनेन शान्तरस पद्यसन्दर्भयोः प्रतिपाद्यप्रतिपादकभावः संबन्धोऽपि दर्शित इति पीठिकाया अक्षरार्थः । भावार्थस्त्वयम्उपदेशरत्नाकरादि-ग्रन्थग्रथनानन्तरं तत्फलभूतसकलधर्मशास्त्ररहस्यं शाश्वतानन्दकारणं पारमार्थिकोपदेश्यः सर्वरसप्रधानः शान्तरसो वक्ष्यमाणेन पद्यबद्धाऽध्यात्मकल्पद्रुमाभिधानेन ग्रन्थेनोपदेशविषयः क्रियतं इति । अत्र'अथ'इत्यनेन मङगलं दर्शितं अवसरसंगतिश्च दर्शिता, 'शान्तरसाधिराज' इत्यनेन प्रतिपाद्योऽर्थो दर्शितः; 'ऐहिकामुष्मिक'-इत्यादिना प्रयोजनं दर्शितम्; 'शान्तरसाधिराजः १. त् 'इति, सर्वत० | २. न चेति । ३. व्यते इ० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy