________________
१०६
धनवि . - I. -अथ क्रमप्राप्तं लोभनिग्रहमुपदिशति
'सुखाय' इति - हे आत्मन् ! यदि चेद् - आत्मनः स्वस्य सुखाय लोभं धत्सेधरसि, तत्-तदा ज्ञानादिरत्नत्रितये- ज्ञान-दर्शन- चारित्ररूपरत्नत्रये लोभं विधेहीति, अत्र "जातौ जातौ यदुत्कृष्टं तद् रत्नमभिधीयते " इति [ ] वचनादुष्कृष्टे ज्ञान-दर्शन-चारित्रे यत्नं विधेहीत्यर्थः, हे अकृतिन् ! - अपण्डित ! च पुनश्चेद् ! यदि अत्र-इह लोके च पुनः परत्र-परलोके स्वस्य दुःखाय लोभं धत्से, तत्तदा बहिः- बाह्यपरिग्रहे धन-धान्यादिनवविधे च पुनर् आन्तरेऽपि परिग्रहे कषायलक्षणे लोभं विधेहीति ।।७.१२ ।।
,
"
—
श्रीअध्यात्मकल्पद्रुमे
रत्न. - अथ लोभमुक्तिमाश्रित्योपदिशति
सुखाय धत्से इति, व्याख्या- हे आत्मन् ! यदि त्वमात्मनः- स्वस्य हेतवे लोभं धत्से दधासि तत्-तर्हि ज्ञानमादौ यस्य तद् ज्ञानादि, तच्च रत्नत्रितयं च ज्ञानादिरत्नत्रितयं, तस्मिन् ज्ञान-दर्शन- चारित्रलक्षणे इत्यर्थः विधेहि कुरु, रत्नोपमानेन निधानीकर्तुं योग्यत्वमुपदिष्टं, अन्यस्मिन्नसारे वस्तुनि लोभः कृतः, तत्र किं न कृतस्तदा, किं च यदा च लोभः क्रियते तदा रत्नवस्तुन्येव क्रियते इति सूचितं, तेन साभिप्रायमुपमानं । हे कृतिन् ! - हे पण्डित ! चेद्-यदि अत्र-इह लोके दुःखाय दुःखनिमित्तं लोभं धत्से, तत्- तर्हि परिग्रहे लोभं विधेहि, किंलक्षणे ? - बहिर्भवे-धनधान्यादिनवविधे, च पुनः कस्मिन ? - आन्तरे क्रोध - मान- माया-लोभादिके विधेहि, एवं द्विविधेऽपीत्यर्थः ।।७.१२ ।।
[१६८] करोषि यत् प्रेत्यहिताय किंचित् कदाचिदल्पं सुकृतं कथञ्चित् । मा जीहरस्तन्मद-मत्सराद्यैर्
विना च तन्मा नरकातिथिर्भूः ।।७.१३।।
१. धनवि टीकायां अकृतिन् पदं, तेन हे अपण्डित० साक्षात् सङ्केतः । रत्नवि.टीकायां हे कृतिन् 'इत्यस्ति' 'अकृतिन्' इति लाक्षणिकोऽर्थ ज्ञेयः ।