SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कषायनिग्रहद्वारम् धनवि.-अथ क्रमप्राप्तं च मायानिग्रहमुपदिशति - 'अधीति' इति-अधीतिश्च-अध्ययनम्, अनुष्ठानं च-षडावश्यकादिक्रिया, तपश्च द्वादशभेदं, शमश्च-उपशमः, ते आद्या येषां ते तथा, आदिपदाद् दम-दानादिपरिग्रहः तान्-अधीत्यनुष्ठान-तपःशमाद्यान्, विचित्रान्-अनेकप्रकारान्, समायान्-उत्कटपरवञ्चनात्मकपरिणाम-लक्षणमायया सहितान्, धर्मान-धर्मकार्याणि विदधत-कुर्वन् आत्मदेहक्लेशाधिकं-निजशरीरश्रमातिरिक्तं तत्फलं-तेषां धर्माणां फलं न लप्स्यतेनाप्स्यसे, च पुनर्भवान्तरेषु-परभवेषु तान्, अध्ययनादीन् धर्मान् मायां च कुर्वन्न लप्स्यसे; नन्वेवं सति महाबलभवापेक्षया मायाकारिणा मल्लिनाथेन तीर्थकरर्द्धिः कथं प्राप्तेति चेत् ? न, अत्रोपदेशे उत्कटमायाकारिणः केवलं जनरञ्जनादिवञ्चनबुद्ध्या धर्मकर्मणि मायाकारिणश्च धर्मफलवैफल्यदर्शनात् ।।७.११।। रत्न.-अथ क्रोध-मान-मुक्तिविषये उपदिश्य मायाविषये उपदिशति - अधीत्यनुष्ठान-शमाद्यान्-इति, व्याख्या-हे आत्मन् ! त्वमधीतिः-अध्ययनं, अनुष्ठान-योगोपधान-सामायिक-पौषधादिकरणलक्षणं, तपः-षष्ठादि, शमः-उपशमः, ते आद्या येषां ते तान्, आद्यशब्देन वैयावृत्त्यप्रभृतिग्रहणं, धर्मान् विदधत्-कुर्वन्, तेषां धर्माणां फलं, तत्फलं न लप्स्यसे, न प्राप्स्यसि, किंभूतान्, विचित्रान् नानाविधान्, यतः लक्षणान् किं ? - सह मायया कुसृत्या पररञ्जनात्मिकया वर्त्तन्ते ये, तान् फलं किंलक्षणं ? - आत्मनः-स्वस्य देहः, तस्य क्लेशः, तस्मादधिकं, देहक्लेशः कृतस्तदेव फलं नान्यत् फलमित्यर्थः, केषु ? - भवान्तरेषु-अन्यजन्मसु, च पुनस्तान्-अधीत्यनुष्ठानतपःशमाद्यान् धर्मान् न लप्स्यसे, स(ह)मायया कृतत्वाद् बोधेर्दुर्लभत्वाच्च, अत्रापि भवान्तरेष्विति योज्यम् । ७.११।। [१६७] सुखाय धत्से यदि लोभमात्मनो ज्ञानादिरत्नत्रितये विधेहि तत् । दुःखाय चेदत्र परत्र वा कृतिन् !, परिग्रहे तद् बहिरान्तरेऽपि च |७.१२।। १. ०स्तदधी० मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy