SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रु इत्यमुना प्रकारेणानन्तरोक्तम् । शास्त्रैः- लक्षणया शास्त्रवचनैः शास्त्रश्रवणैर्वा, अवधेहि-सम्यग् जानीहीत्यर्थः, येन नारक - तिर्यगादिदुःखानुभव-कारणसम्यग्ज्ञानेन, ते तव विषयेषु-दुर्गतिकारणेषु शब्दादिषु तृष्णा- गार्ध्यं निवर्त्तते विरमतीत्यर्थः, च पुनर्येन सम्यग्ज्ञानेन पापप्रचयात्-पापपुष्टिकरणाद् बिभेषि-त्वं भयमधिगच्छसीति ।।६.४।। ८८ रत्न. - अथ विशेषदर्शनमेवाह नारक-1 भुङ्क्ते कथम् इति., व्याख्या - हे आत्मन् ! त्वं शास्त्रैः- शास्त्राध्ययनैरित्यर्थः इत्यधेहि- अवधानं कुरु, सावधानो भवेत्यर्थः । इतीति किं ? - देही- देहवान् क- तिर्यगादिदुःखानि कथं भुङ्क्ते ? महता कष्टेन भुङ्क्ते इत्यर्थः, आदिशब्देनातिपापप्रकृत्युदयवन्मनुष्यदुःखानामपि ग्रहणम्, येन-शास्त्रैः कृत्वा अवधानेन विषयेषु पञ्चसु तृष्णा-लौल्यं निवर्त्तते च पुनः, येन पापस्य प्रचयात्समूहाद् बिभेषि-भयं प्राप्नोषीति ।।६.४।। 1 — - [१३८] गर्भवासनरकादिवेदनाः, पश्यतोऽनवरतं श्रुतेक्षणैः । नो कषायविषयेषु मानसं, श्लिष्यते बुध ! विचिन्तयेति ताः ।।६.५।। धनवि . – अनन्तरोक्तमेवार्थं प्रकारान्तरेण दर्शयन्नुपदिशति " ‘गर्भवास' इति—अनवरतं - निरन्तरं श्रुतेक्षणैः- शास्त्ररूपलोचनैर्गर्भवासनरकादिवेदनाः पश्यतो-विलोकयतः, तव मानसं चित्तं, कषाय-विषयेषु नो श्लिष्यते-नैवा-ऽऽलिङ्गतीत्यर्थः । अत्र गर्भवासवेदनास्वरूपसूचिके इमे गाथे [१३९] सूईहिं अग्गिवण्णाहिं, संभिन्नस्स निरंतरं । १. ० वालिम्पती० मु० । २. 'भवे' मु० । 1 - जारिसं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तेओ ।।[ ]||
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy