________________
विषयनिग्रहद्वारम्
८७ सप्रतिपक्षता । हे कृतिन् ! - हे पण्डित ! तत्कारणात् तयोर्मध्ये विशेषदृष्ट्याविशेषदर्शनेन विशेषज्ञानेन वा विशेषं दृष्ट्वा ज्ञात्वा चेत्यर्थः अन्यतरद्-एकं वरीयः सुखं गृहाणेति ।।६.३।।
[१३२] भुङ्क्ते कथं नारक-तिर्यगादि
दुःखानि देहीत्यवधेहि शास्त्रैः । निवर्त्तते ते विषयेषु तृष्णा,
बिभेषि पापप्रचयाच्च येन ||६.४।। धनवि.-अथ विषयतृष्णानिवृत्त्यर्थं शास्त्रश्रवणैरवहितो भवेत्युपदिशति -
'भुङ्क्ते' इति-देही-प्राणी नारक-तिर्यगादिदुःखानि-नरकगति-तिर्यग्गतिप्रमुखदुःखानि, आदिपदान्मनुष्यगति-देवगतिदुःखानि, कथं ? - केन प्रकारेण ? केन प्राक्कृतकर्मणा ? वा भुङ्क्ते अनुभवति, अत्र चतुर्गतिदुःखस्वरूपप्रतिपादिका इमा गाथा: - [१३३] कक्खडदाहं सामलि असिवण वेयरणि पहरणसएहिं ।
जा जायणा उ पावंति नारया तं अहम्मफलं ।।[ ]।। [१३४] तिरिया कसंऽकुसा-ऽऽरानिवाय-वह-बंध-मारणसयाइं ।
न वि इहयं पावंता परत्थ जइ नियमिआ हुंता ।।[ ]।। [१३५] चारग-निरोह-वह-बंध-रोग-धणहरण-मरण-वसणाइं ।
मणसंतावो अजसो विग्गोवणया य माणुस्से ।।[ ]।। [१३६] तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ ।
अइबलियं चिय जं न वि फुट्टइ सयसक्करं हिययं ।।[ ]।। [१३७] ईसा-विसाय-मय-कोह-माण-लोभेहिं एवमाईहिं ।
देवा वि समभिभूया तेसिं कत्तो सुहं नाम ? ||[ ]|| इत्युपदेशमालायाम्, १. शाल्मलिवृक्षपत्रैः अङ्गच्छेदनं । २. खड्गसदृशपत्रवने भ्रमणं । ३. तप्तत्रपु सदृशजला नदी, तस्या जलस्य पानं । ४. शतखण्डं - १-४ प्रतौ टीप्पणी - सं. । .