SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ [२७८ [विवेकमञ्जरी अथ नागदत्तो यथा - 88 अस्ति वाराणसी नाम नगरी श्रीगरीयसी । जितशत्रुनृपस्तत्र क्षत्रधर्मधनोऽभवत् ॥१॥ राजप्रसादपात्रं च श्रेष्ठी तत्र महाधनः । - धनदत्तोऽभवत् तस्य धनश्रीरिति गहिनी ॥२॥ साऽपश्यदन्यदा स्वप्ने नागदेव्या स्वकण्ठतः। उत्तार्य सादरं हारं निजकण्ठे निवेशितम् ।।३।। तदैत्य पत्युराचख्यौ प्रातः प्रीतिभरेण सा । सोऽभ्यधाद् नागदेवी नः सा प्रिये ! कुलदेवता ॥४॥ तस्याः प्रसादतः पुत्रोऽचिरेण भविता तव । इत्युक्ता तेन सा गर्भ बभार क्रमयोगतः ॥५॥ दोहदेषु ततः सङ्घपूजादेवार्चनादिषु । श्रेष्ठिना पूर्यमाणेषु पूर्णेषु च दिनेषु सा ॥६॥ असूत किरणस्यूतदेहद्योतितदिङ्मुखम् । सुतं रुपयुतं देवी पद्मवासेव मन्मथम् ।।७।। जन्मोत्सवं विधायास्य श्रेष्ठी स्वप्नानुसारतः । नागदत्त इति ख्यातनामानं तनयं व्यधात् ॥८॥ धात्रीभिः पाल्यमानोऽयं ववृधे प्रतिवासरम् । भानोरमृतनाडीभिरिव बालः सुधाकरः ॥९॥ स पञ्चवर्षदेशीयो जगृहे सकलाः कलाः । आरुरोह च सौन्दर्यभवनं यौवनं क्रमात् ॥१०॥ पित्रा सार्धं व्रजन् देवगुरूणामाश्रये सदा । शृण्वन् धर्ममभूच्चैष विषयेषु पराङ्मुखः ॥११॥ तद्रूपमोहिताः कन्या समाजग्मुरनेकशः । चिद्रूपचन्द्रमाः किन्तु स नोद्वोढुममन्यत ॥१२॥ 15 25
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy