________________
२७७]
गुणानुमोदनाद्वारेऽतिमुक्तककथा]
हहा ! मयातिमूढेन तत्कृतं किल दुष्कृतम् । स्मरतोऽपि न यद् माति हृदि मे र्निदयादिमे ॥३६।। एवं जातलयः क्षिप्तं क्षपकश्रेणिमाश्रयन् । घातिकर्म विघात्यैष लेभे केवलमुत्तमम् ॥३७॥ दुन्दुभीस्ताडयन्तोऽथ वर्षन्तः कुसुमोदकम् । स्तुवन्तोऽभ्येत्य ते देवाः सेवामस्य वितेनिरे ॥३८॥ इत्यतिमुक्तकनामा बालर्षिः सपदि धर्षितविकर्मा । भव्यान् विबोध्य भुवने चिरमथ मुक्तिश्रियं भेजे ॥३९॥
॥ इत्यतिमुक्तकमुनिकथा ॥