________________
5
10
15
२४२]
[ विवेकमञ्जरी
अथाभयः प्राह पतङ्गमृत्युर्युक्तः श्रुतार्हद्वचनस्य मे न । तात ! प्रसादाद्भवतो ग्रहीष्ये व्रतं तु दिष्ट्या भगवत्पदान्ते ॥५३॥ नृपोऽप्यनाकर्णितकेन तूर्णं पुरं गतोऽन्तःपुरमक्षतं तत् । जीर्णेभशालां ज्वलितां च दृष्ट्वा विमृश्यकारिण्यभये जहर्ष ॥ ५४ ॥ ततोऽभये यत् 'परतो व्रजे 'ति कोपात् तदाभाष्यत तद् विमृश्य । तैरेव पादैः प्रभुपर्षदि क्ष्मापतिः सुतं सान्त्वयितुं जगाम ॥५५॥ तत्रैष तं दीक्षितमालुलोके श्रीवीरनाथस्य पुरो निषण्णम् । विषण्णमेनं त्वभयो मुनीन्दुः प्राबोधयद् बोधयितव्यमेवम् ॥५६॥ तदात्मसन्धावचनं विचिन्त्य राजन् ! विषादं हृदि मा दधीथाः । मया गृहीतं भगवत्पदान्ते व्रतं भवानप्यनुमोदतां तत् ॥५७॥ श्रुत्वेति राजा प्रणिपत्य नाथं मुनीनथान्यानभयं च भक्त्या । तं क्षामयित्वाऽश्रुमुखः स्वनिन्दापरः कथञ्चित् पुरमाजगाम ॥५८॥ श्री वीरपादमूले तप्त्वा चिरमायुषोऽन्तमधिगम्य । अभयकुमारमुनीन्दुर्गतिमूहेऽनुत्तरां क्रमतः ॥५९॥
॥ इत्यभयकुमारकथायां पारिणामिकीबुद्धिनिबन्धनं चतुर्थः प्रकाशः ॥