________________
5
10
15
20
२३०]
तदनुज्ञाप्य पितरमननुज्ञाप्य वाप्यहम् । आर्यदेशं गमिष्यामि यत्र मेऽस्त्यभयो गुरुः " ॥ ४५॥ इत्थं मनोरथं कुर्वन्नादिनाथार्चनापरः । आपृच्छदन्यदा तातं स यातुमभयान्तिकम् ॥४६॥ अवादीदार्द्रकेशस्तं न गन्तव्यं खलु त्वया । वत्स ! स्थानस्थितानां हि सौहृदं श्रेणिकेन नः ॥४७॥ पित्राज्ञया निषिद्धश्चोत्कण्ठितश्चाभयं प्रति । श्रवदश्रुः कुमारोऽस्थाद् वारीबद्ध इव द्विपः ॥४८॥ आसने शयने याने भोजनेऽन्यक्रियास्वपि । अभयालड्ङ्कृतामाशां दृशामग्रे चकार सः ॥४९॥ कीदृग् मगधदेशोऽस्ति कीदृग् राजगृहं पुरम् । कस्कोऽध्वा तत्र गमनेऽपृच्छदेवं च पार्श्वगान् ॥५०॥ दध्यावार्द्रकराजोऽपि कुमारो मम निश्चितम् । यास्यत्यकथयित्वैव कदाप्यभयसन्निधौ ॥५१॥ ततश्च पञ्च सामन्तशतान्यादिशदार्द्रकः । युष्माभिर्यत्कुमारोऽयं रक्ष्यो देशान्तरं व्रजन् ॥५२॥ देहच्छायेव तत्पार्श्वं सामन्तास्तेऽत्यजन् न हि । बन्धे धृतमिवात्मानमार्द्रकेयोऽप्यमन्यत ॥५३॥ अथैष हृदये कृत्वाऽभयोपगमनं सुधीः । प्रत्यहं कर्तुमारेभे वाह्याल्यां वाहवाहनम् ॥५४॥ अश्वारूढाश्च पार्श्वेऽस्थुः सामन्तास्तेऽङ्गरक्षकाः । कुमारो वाहयन्नश्वं किञ्चिद् गत्वा न्यवर्तत ॥५५॥ एवं च वाहयन् वाहं स ययावधिकाधिकम् । पुनः पुनश्च व्याघुट्याययौ ते च विशश्वसुः ॥५६॥
[ विवेकमञ्जरी