________________
गुणानुमोदनाद्वारे दशार्णभद्रकथा ]
जङ्गमोद्यानलेखावत्सामन्त श्रीकरीभरैः ।
क्रमेण प्राप समवसरणं स महीपतिः ||३०|| पञ्चभिः कुलकम् ॥ स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसाञ्चक्रे यथास्थानमास्थाने ऋद्धिगर्वितः ॥ ३१ ॥ तमृद्धिगर्वितं बोधपाकं शासितुमात्मना । अम्भोमयं विकृतवान् विमानं पाकशासनः ||३२|| "स्फटिकाच्छपयोभित्तिप्रान्तकान्तमृणालिकम् । तदरालविचालस्थमरालमिथुनाद्भुतम् ॥३३॥ शिरस्थानीभवत्पद्मतन्नालस्तम्भशोभितम् ।
नीलवल्लीतुलं पद्मपरागोल्लोचरोचितम् ॥३४॥ उन्नीरशिखरप्रान्तकुम्भीभूताब्जकुड्मलम् । वीचिदण्डोपरिप्रेङ्खत्फेनकेतुपटोत्तरम् ॥३५॥
उपात्तोदारमन्दारपतत्कुसुमपूजितम् । सत्त्वैराम्भसिकैरुह्यमानं धुर्यैरिवोद्धतैः ||३६||
जलकान्तविमानं तत् शक्रोऽध्यास्त सहामरैः ।
चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः" ||३७|| पञ्चभिः कुलकम् ॥
गन्धर्वारब्धसङ्गीतदत्तकर्णो मनाग् मनाक् । मर्त्यलोकमवातारीदमर्त्याधिपतिस्ततः ॥३८॥ जाम्बूनदाम्बुजन्यस्तपादमष्टापदोन्नतम् । बिभ्राणं पार्श्वयोर्घण्टे सूर्याचन्द्रमसाविव ॥३९॥
देवदूष्यकुथच्छन्नपृष्ठं प्रष्ठं धुकुम्भिनम् । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः ||४०|| युग्मम् ॥
गजाष्टदन्तीमाणिक्यवाप्यम्भोजेषु भूरिशः ।
द्वात्रिंशत्पात्रबन्धेन सङ्गीतमवधारयन् ॥४१॥
[ १८९
5
10
15
20