________________
१८८]
[विवेकमञ्जरी
परितः कदलीस्तम्भा दलैरुल्लासिभिर्बभुः । अङ्गरक्षा इव श्रीणामुल्लासितरवारयः ॥१८॥ वस्त्रं वन्दनमालाश्च पुटापुटिकया बभुः । सफेना गगनाम्भोधेः कुटिला इव वीचयः ॥१९॥ क्वचित् क्वचिच्च भान्ति स्म तोरणे चित्रकत्वचः । मणिस्तम्भप्रभाम्भोधाववतीर्णा घना इव ॥२०॥ एवं मार्गमतिस्वर्ग विरचय्य नियोगिनः । राज्ञे व्यजिज्ञपन् स्वामिदर्शनौत्सुक्यधारिणे ॥२१॥ स्नात्वा राजापि दिव्याङ्गरागः सर्वाङ्गभूषणः । चारुचीरधरं स्रग्वी गजमारोहदुत्तमम् ॥२२॥ स रराजातपत्रेण पूर्वाचल इवेन्दुना । चलाभ्यां चामराभ्यां च रवीन्दुभ्यामिवोदधिः ॥२३॥ चामरैर्वीज्यमानाश्च वर्यपर्यङ्किकासनाः । साचीकृतशचीरूपा अन्तःपुर्यस्तमन्वगुः ॥२४॥ नरेन्द्रः प्राचलत्प्राज्यमणिभूषणभासुरैः । असावनुगतो भूपै रूपैः स्वैरिव वैक्रियैः ॥२५॥ हरिसेराहखुङ्गाहनीलपाटलरोचिषाम् । राजा राजिभिरश्वानां यथावर्णं पृथक् पृथक् ॥२६॥ बन्दिभिः स्तूयमानश्च गीयमानश्च गायनैः । दर्यमानात्मविज्ञानो मार्गालङ्कारकारिभिः ॥२७॥ उपर्युपरि नीरन्ध्रमिलितस्त्रीमुखाम्बुजैः । पश्यन् मञ्चेषु मञ्चेषु शतचन्द्रं नभस्तलम् ॥२८॥ भेरीताम्रानकभ्रेरीझल्लरीकम्बुकूजिते । विज्ञप्त्यर्थं विदन् सेवाकारिणां हस्तसञया ॥२९।।