SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १३२] शालिक्षेत्रमहास्वप्नसूचितं गर्भमन्यदा । बिभरामास सा रत्नं रत्नभूधरभूरिव ॥ ६ ॥ उद्दामदानसद्धर्ममतिसन्दोहदानथ । दोहदान् भद्रधीरस्या गोभद्रः पर्यपूरयत् ॥७॥ पूर्णे काले ततः पुत्रः पूर्णेन्दुरिव पूर्वया । तयाऽसूयत सुश्रेष्ठं श्रेष्ठी जन्मोत्सवं व्यघात ॥८॥ दृष्टस्वप्नानुसारेण चक्रतुः पितरावथ । सूनोः श्रीशालिनः शालिभद्र इत्यभिधां ततः ॥९॥ धारणाभिर्यथा ध्यानं तपः समितिभिर्यथा । ववृधे पाल्यमानोऽसौ धात्रीभिरथ पञ्चभिः ॥१०॥ स पञ्चवर्षदेशीयोऽध्यापकानां समर्पितः । सिन्धोराप इवागस्त्यो निष्पपौ सकलाः कलाः ॥ ११॥ अनङ्गीकृत्य पञ्चेषु॑ तदङ्गेनेव निर्मितः । स प्राप यौवनं स्त्रेणनेत्रालिलवलीवनम् ॥१२॥ धन्या द्वात्रिंशतं कन्याः पित्रा सुपात्रसन्निभः । अथैष लक्ष्मीसंवासहरिणा परिणायितः ॥ १३॥ शालिभद्रः समं ताभिस्ताराभिरिव चन्द्रमाः । पितृभ्यां पूर्यमाणेष्टभोग भोगानभुङ्क्त सः || १४ | दान्तः श्रीवीरपादान्ते गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वाऽमर्त्यभूमिं जगाम सः ||१५|| पूरयामास तत्पुण्याद् दिव्यभोगानथान्वहम् । आगत्य सवधूकाय शालिभद्राय सोऽमरः ॥ १६॥ कार्यं मर्त्योचितं यद्यद् भद्रा तत्तदसाधयत् । पूर्वपुण्यप्रभावेण भोगानैवैष भुक्तवान् ॥१७॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy