________________
गुणानुमोदनाद्वारे शालिभद्रकथा]
[१३१ अथ तद्गुणानुध्यानरसैकतानमानसतया पुरो दृष्टेवानुत्तरविमानमणिकिङ्किणीक्वणलयपरायणं शालिभद्रमुन्निद्रयन्नाह -
तह सुकुमालो तह भोगलालसो सालिभद्द ! कह णु तुमं । दुद्धरनियमधुरं पडिवन्नो नमिऊण वीरजिणं ? ॥४१॥
[तथा सुकुमालस्तथा भोगलालसः शालिभद्र ! कथं नु त्वम् । 5
दुर्धरनियमधुरां प्रतिपन्नो नत्वा वीरजिनम् ? ॥] व्याख्या – हे शालिभद्र ! 'कह णु तुम' 'नु' इति वितर्के, कथं त्वं दुर्धरनियमधुरां दुर्वहाभिग्रहधुरां पादपोपगमानशनरूपां 'पडिवन्ना' प्रतिपन्नः । किं कृत्वा ? 'नमिऊण वीरजिणं' वीरजिनमपश्चिमतीर्थनाथं नत्वा, तदाज्ञामादायेति भावः । किंविशिष्टस्त्वम् ? 'तह सुकुमालो' तथा तेन प्रकारेण सुकुमारो यथा 10 महाराज-श्रेणिकस्यापि वपुरुष्मणा त्वं व्यथां प्राप्तः । 'तह भोगलालसो' तथा तेन प्रकारेण भोगा विषयास्तेषु लालसो लम्पटः, यथा साक्षादात्मवपुर्लक्षणलक्ष्मीभिरिव द्वात्रिंशता वधूभिरसूर्यम्पश्याभिः सह सुरलोकादागतं गन्धमाल्यवसनमण्डनाऽशनरसमनुदिवसमवशमानसस्त्वं विलसन्नात्मनः स्वामिसत्तामपि नाज्ञासीरित संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - IS अस्ति राजगृहं हस्तिविराजद्गोपुरं पुरम् ।
धराहारसमाकारप्राकारपरिवारितम् ॥१॥ चतुरङ्गरणक्रीडास्वजेयो द्यूतकारवत् । वशीभूताक्षचारोऽत्र नृपः श्रेणिक इत्यभूत् ॥२॥ प्रिया तस्य प्रियालापचणाऽभूच्चिल्लणाभिधा। यस्या मुख्यस्य खण्डाभमचण्डद्युतिमण्डलम् ॥३॥ पुरे तत्र सुरेन्द्र श्रीकोशागारिकवैभवः । पुण्यैः षट्खण्डगो भद्रः श्रेष्ठी गोभद्र इत्यभूत् ॥४॥ गेहिनी गेहिनीतिज्ञा तस्य श्रीरिव जङ्गमा । निष्कलङ्कमहाशीलभद्रा भद्राभिधाऽभवत् ॥५॥
15
25