________________
[१२९
गुणानुमोदनाद्वारे सुकोशलमुनिकथा]
एतस्यामापतन्त्यां तावतिमात्रक्षमाधरौ । क्षमाधरौ यथाऽस्थातां कायोत्सर्गेण निश्चलौ ॥२९॥ "सा तु व्याघ्री समुत्प्लुत्य पपातादौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥३०॥ दारं दारं वपुस्तस्य रक्तं पापा पपावियम् । त्रोट त्रोटं पलं चाश्नाद् भजं भञ्जमथास्थ्यपि ॥३१॥ मर्माणि न हि कर्माणि सहायेयं भिनत्ति मे । इति भेजे मुदं मम्लौ स मुनिर्न मनागपि ॥३२॥ व्याघ्येति भक्ष्यमाणोऽपि शुद्धध्यानपरायणः । उत्पन्नकेवलो मोक्षं सुकोशलमुनिर्ययौ" ॥३३॥ "मुनिः कीर्तिधरोऽप्युच्चैस्तदा व्याघ्रीभयादिव ।
क्षपकश्रेणिमारूढः केवलज्ञानमासदत्" ॥३४॥ "सापि व्याघ्री तदङ्गानि खादं खादमशेषतः । तृप्ता सुकोशलस्यास्यं विलोक्येदमचिन्तयत् ॥३५।। ईदृग्मुखं मया क्वापि विलोकितचरं किल । इत्यूहापोहतो जातिस्मृति शिश्राय सा क्षणात् ॥३६॥ अहं पूर्वभवे कीर्तिधरस्य पृथिवीभृतः । सहदेवीति कान्ताऽऽसं मम पुत्रः सुकोशलः ॥३७॥ तौ व्रतं प्रतिपेदाते तद्वियोगादहं पुनः । आर्तध्यानाद् विपद्याऽस्मि जाता व्याघ्री वनान्तरे ॥३८॥ तदिदं मुखमेतद्धि सुकोशलमुखोपमम् । आः ! स्वपुत्रो मया प्राज्यपापया मारितः स्वयम् ॥३९॥ अयं कीर्तिधरः साधुर्यो मया मन्दभाग्यया । पारणायै भ्रमन् भिक्षां नगराद् निरवास्यत ॥४०॥
15