________________
१२८]
[विवेकमञ्जरी
सुकोशलोऽथ तामूचे मातः ! किमिति रोदिषि ? । सापीति कथयामास तस्मै गद्गदया गिरा ॥१७।। राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्रावाजीदद्य सोऽविक्षद् भिक्षार्थमिह पत्तने ॥१८॥ तद्दर्शनात् तवाप्यद्य व्रतग्रहणशङ्कया। निर्वासितः स ते मात्रा दुःखेनानेन रोदिमि ॥१९॥ श्रुत्वा सुकोशलोऽप्येतद् गत्वा च पितरन्तिके । प्रणम्य प्राञ्जली राज्यविरक्तोऽयाचत व्रतम् ॥२०॥ तत्प्रिया चित्रमालाथ गुर्खेत्य सह मन्त्रिभिः । उवाचाऽस्वामिकं स्वामिन् ! न राज्यं त्यक्तुमर्हसि ॥२१॥ नपोऽप्युवाच गर्भस्ते गोपताविह नन्दने । त्यक्तगुर्यद्यहं यामि राजा तत्रोचितं न किम् ? ॥२२॥ इत्युक्त्वाऽमात्यसात् कृत्वा राज्यं स्वपितुरन्तिके । सुकोशलः प्रवव्राज कुशलो धर्मकर्मसु ॥२३॥ तप्यमानौ तपस्तीव्र सहमानौ परीषहान् । महीतले महर्षी तौ पिता-पुत्रौ विजहतुः ॥२४॥ तनुजस्य वियोगेन खेदभाक् सहदेव्यपि ।
आर्तध्यानपरा मृत्वा व्याघ्यभूद् गिरिगह्वरे ॥२५॥ $$ इतश्च तावपि मुनी कुत्रापि गिरिकन्दरे ।
स्थितौ वर्षाचतुर्मासीमासीनौ ध्यानवर्त्मनि ॥२६।। प्रावृडन्ते प्रयान्तौ तौ पारणाय महामुनी । दृष्टौ मार्गे तथा व्याघ्रया कालरात्र्येव घोरया ॥२७॥ व्यात्तवक्त्रान्तरा लोलजिह्वासौ दीप्रलोचना । घुघुरामुखरा घ्नन्ती पुच्छेनोर्वीमधावत ॥२८॥