________________
हियते यावता कालेन स पल्यो निपीक्रियते तावान् कालो बादरमद्धापल्योपमं विज्ञेयं, तत्र बादरेऽद्धापल्योपमे सङ्ख्येया वर्षकोड्यो भवन्तीति ।। २४ ॥ अथ सूक्ष्ममद्धापल्योपममाह-वाससे'त्यादि, स एव पल्यः प्राग्वदसत्येयखण्डीकृतसूक्ष्मवालाप्रैराकर्ण परिपूर्णः क्रियते, ततो वर्षशते वर्षशतेऽतिक्रान्ते सत्येकैकसूक्ष्मवालाप्रापहारतो यावता कालेन स पल्यः सर्वात्मना रिक्तो भवति तावान कालः सूक्ष्ममदापल्योपमं अवबोद्धव्यं, तत्र च सूक्ष्मेऽद्धापल्योपमे भवन्त्यसयेयानि वर्षाणि, असङ्ख्येया वर्षकोटयो भवन्तीत्यर्थः ॥२५॥ सम्प्रति बादरं सूक्ष्मं च क्षेत्रपल्योपममाह-'बायरे'त्यादि, बादराणि च सूक्ष्माणि च बादरसूक्ष्माणि पूर्वोक्तपल्यगतानि सहजान्यसङ्ख्येयखण्डीकृतानि च यानि वालाप्राणीत्यर्थः तेषामवगाढत्वसम्बन्धेन सम्बन्धि यदाकाशं तत्र ये क्षेत्रप्रदेशा-निरंशनभोविभागस्वरूपास्तेषामनुसमयं-प्रतिसमयमेकैकापहारे क्रियमाणे यावान् कालो लगति तदात्मकं यथाक्रममेव बादरं सूक्ष्मं च क्षेत्रं-क्षेत्रपल्योपमं भवति, इयमत्र भावना-स एवोत्सेधाङ्गुलप्रमितयोजनप्रमाणविष्कम्भायामावगाढः पल्यः पूर्ववदेकाहोरात्रयावत्सप्ताहोरात्रप्ररूद्वैर्वालाप्रैराकर्ण निचितो भ्रियते, ततस्तैर्वालाग्रैर्ये नभःप्रदेशाः स्पृष्टास्ते समये समये एकैकनभःप्रदेशप्रतिसमयापहारेण यावता कालेन सर्वात्मना निष्ठामुपयाति तावान् कालविशेषो बादरं क्षेत्रपल्योपमं, एतच्चासयेयोत्सर्पिण्यवसर्पिणीमानं, यतः क्षेत्रस्यातिसूक्ष्मत्वेनैकैकवालाप्रावगाढक्षेत्रप्रदेशानामपि प्रतिसमयमेकैकापहारे 'अंगुलअसंखभागे ओसप्पिणीओ असंखेजा' [ अङ्गुलासंख्येयभागे अवसपिण्योऽसंख्येयाः इति वचनात् असल्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति, किं पुनः सर्ववालाप्रावगाढक्षेत्रप्रदेश एव पूर्वोक्तः पल्यः पूर्ववदेकैकं वालाप्रमसङ्ख्येयखण्डं कृत्वा तैराकर्ण भृतो निचितश्च तथा क्रियते यथा मनागपि न तत्राम्यादिकमाक्रामति, एवं भृते तस्मिन् पल्ये ये आकाशप्रदेशास्तैर्वालाप्रैः स्पृष्टा ये च न स्पृष्टास्ते सर्वेऽप्येकैकस्मिन् समये एकैकाकाशप्रदेशापहारेण समुद्भियमाणा यावता कालेन सर्वात्मना निष्ठामुपयान्ति तावान् कालविशेषः सूक्ष्म क्षेत्रपल्योपमं, इदमप्यसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानमेव केवलं पूर्वस्मादसङ्ख्येयगुणं, वालाप्रस्पृष्टनभःप्रदेशेभ्योऽस्पृष्टानामसंख्यातगुणत्वादिति । ननु यैर्वालाप्रैरेकान्ततो निचितमापूरिते सति तस्मिन् पस्ये वयादिकमपि सर्वथा नाकामति तत्र कथं तैर्वालाप्रैः अस्पृष्टा नमःप्रदेशाः सम्भाव्यन्ते ? येनोच्यते तैर्वालाप्रैरस्पृष्टा इति, अत्रोच्यते, वालाग्रेभ्योऽसङ्ख्येयखण्डीकृतेभ्योऽपि नभःप्रदेशानामत्यन्तसूक्ष्मत्वात् , तथा चात्रार्थे प्रश्रनिर्वचनरूपमनुयोगद्वारसूत्रं-"तत्थ णं चोयगे पण्णवगमेवं वयासी-अत्यि णं तस्स पल्लस्सागासप्पएसा जे णं तेहिं वालग्गेहिं अफुन्ना ?, हंता अत्यि, जहा को दिलुतो?, से जहानामए एगे पल्ले सिया से णं कोहंडाणं भरिए तत्थ माउलिंगा पक्खित्ता तेवि माया तत्थ णं बिल्ला पक्खित्ता तेवि माया तत्थ णं आमलगा पक्खित्ता तेवि माया तत्थ णं बदरा पक्खित्वा तेवि माया तत्थ णं चणगा पक्खित्ता तेवि माया, एवमेएणं दिहतेणं अत्थि णं तस्स पल्लस्स आगासप्पएसा जेणं तेहिं वालग्गेहिं अणुप्फुन्ना" इति, [तत्र चोदकः प्रज्ञापकमेवमवादीत् -सन्ति तस्य पल्यस्याकाशप्रदेशा ये तैर्वालाप्रैरस्पृष्टाः ?, हन्त सन्ति, यथा को दृष्टान्तः ?, तद्यथा नाम एकः पल्यः स्यात् स कूष्माण्डैभृतः तत्र मातृलिङ्गानि प्रक्षिप्तानि तानि मातानि तत्र बिल्वानि प्रक्षिप्तानि तान्यपि मातानि तत्रामलकानि प्रक्षिप्तानि तान्यपि मातानि तत्र बदराणि प्रक्षिप्तानि तान्यपि मातानि तत्र चणकाः प्रक्षिप्तास्तेऽपि माताः एवमनेन दृष्टान्तेन सन्ति तस्य पल्यस्याकाशप्रदेशा ये तैर्वालाप्रैर्न स्पृष्टाः] तदेवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभःप्रदेशान्न सम्भावयन्ति तथापि सूक्ष्माणामपि वालाप्राणां बादरत्वादाकाशप्रदेशानां पुनरतिसूक्ष्मत्वात्सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशाः, दृश्यन्ते च निबिडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिवानां कीलिकानां प्रभूतानां तदन्तः प्रवेशः न चासौ शुषिरमन्तरेण भवतीति । ननु यद्याकाशप्रदेशा वालाप्रैः स्पृष्टा अस्पृष्टाश्च परिगृह्यन्ते ततः किं वालाप्रैः प्रयोजनं ?, एवं प्ररूपणा क्रियतां-उत्सेधाजुलप्रमितयोजनायामविष्कम्भावगाढे पल्ये यावन्तो नभःप्रदेशा इति, सत्यमेतत् , केवलमनेन सूक्ष्मपल्योपमेन दृष्टिवादे स्पृष्टास्पृष्टभेदेन द्रव्यप्रमाणं क्रियते, यथा यैर्वालाप्रैः स्पृष्टा नभ:प्रदेशास्तेषां प्रतिसमयमेकैकनमःप्रदेशापहारेण यत् बादरक्षेत्रपल्योपमं तत्प्रमाणान्येतानि द्रव्याणि, ये तु वालाप्रैः स्पृष्टा अस्पृष्टा वा नमःप्रदेशास्तेषां प्रतिसमयमेकैकनभःप्रदेशापहारेण यत् सूक्ष्मक्षेत्रपल्योपमं तावत्प्रमाणान्येतानि द्रव्याणि, ततो दृष्टिवादे वालाप्रैः प्रयोजनमिति तत्प्ररूपणा क्रियते इति १५८ ॥ २६ ॥ इदानीं 'अयर'त्येकोनषष्ट्यधिकशततमं द्वारमाह
उद्धारपल्लगाणं कोडाकोडी भवेन दसगुणिया। तं सागरोवमस्स उ एक्कस्स भवे परीमाणं ॥२७॥ जावइओ उद्धारो अढाइबाण सागराण भवे । तावइआ खलु लोए हवंति दीवा समुद्दा य ॥ २८ ॥ तह अद्धापल्लाणं कोडाकोडी भवेज दसगुणिया । तं सागरोवमस्स उ परिमाणं हवइ एगस्स ॥ २९ ॥ मुहमेण उ अद्धासागरस्स माणेण सघजीवाणं । कम्मठिई कायठिई भवहिई होइ नायबा ॥ ३० ॥ इह खेत्तपल्लगाणं कोडाकोडी हवेज दसगुणिया । तं सागरोवमस्स उ एकस्स भवे परीमाणं ॥ ३१ ॥ एएण खेससागरउवमाणेणं हविज नायवं । पुढविदगअगणिमारु
यहरियतसाणं च परिमाणं ॥ ३२॥ 'उद्धारे'त्यादिगाथाषटुं, अतिमहत्त्वसाम्यात्सागरेण-समुद्रेणोपमा यस्य तत्सागरोपमं, तदपि त्रिधा-उद्धाराद्धाक्षेत्रसागरोपमभेदात् , पुनरेकैकं द्विधा-बादरं सूक्ष्मं च, वत्र उद्धारपल्ययोः पूर्वोक्तस्वरूपयोर्बादरसूक्ष्मभेदमिन्नयोर्या प्रत्येक कोटीकोटिर्दशमिर्गुणिता दश कोटीकोटय
203