SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पलियं हवंति वासा असंखिज्जा ॥ २५ ॥ वायरसुहुमायासे खेत्तपएसाणुसमयमवहारे । बायर सहमं खेत्तं उस्सप्पिणीओ असंखेज्जा ॥२६॥ 'पलिओवमे'त्यादिगाथानवकम् , पल्यो-वर्तुलाकृतिर्धान्याधारविशेषः पल्यवत्पल्यः-पुरस्ताद्वक्ष्यमाणखरूपः तेनोपमा यत्र कालप्रमाणे तत्पल्योपमं, तच्च त्रिधा-उद्धारपल्योपमं अद्धापल्योपमं क्षेत्रपल्योपमं च, तत्र वक्ष्यमाणस्वरूपवालाप्राणां तत्खण्डानां चोद्धारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम्-अपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं, तथा अद्धा-कालः स चेह प्रक्रमाक्ष्यमाणवालाप्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा प्रस्तुताद्धापल्योपमपरिच्छेद्यो नारकाद्यायुष्कलक्षणः कालोऽद्धा तत्प्रधानं तद्विषयं वा पल्योपममद्धापल्योपमं, तथा क्षेत्रं-विवक्षिताकाशप्रदेशस्वरूपं तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमं, एतेषां च मध्ये पुनरेकैकं द्विभेदं ज्ञातव्यं-बादरं सूक्ष्मं च, तत्र वालाग्राणां सूक्ष्मखण्डाकरणतो यथावस्थितानां स्थूलानां प्रहणाद्वादरं तेषामेवास येयसूक्ष्मखण्डकरणतः सूक्ष्ममिति ॥ १८॥ कः पुनरसौ पल्यो येन पल्योपमे उपमा विधीयते ? इत्याह-'ज'मित्यादि, नाम इति शिष्यस्य कोमलामत्रणे 'पलिओवम इत्यत्र प्राकृतत्वेन विभक्तिव्यत्ययात् सप्तमी 'पल्लं' इत्यादावपि लिङ्गव्यत्ययात् पुंस्त्वं, ततश्च पल्योपमे-पल्योपमविषये धान्यपल्यवत्पल्यः प्रागुदिष्टः स विशेयो, यः किमित्याह-यो विस्तीर्णः, कियदित्याह-योजनमुत्सेधानुलक्रमनिष्पन्नं, वृत्ताकारत्वादयेणापि योजनमिति द्रष्टव्यं, तच्च योजनं त्रिगुणं सविशेष परिरयेण, भ्रमितिमङ्गीकृत्य सर्वस्यापि वृत्तपरिधेः किश्चिन्यूनषड्नागाधिकत्रिगुणत्वादस्यापि पल्यस्य किश्चिन्यूनषड्भा(पं० ९००)गाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः, 'उविद्धं' उद्योऽपि तावदेव योजनमेवेत्यर्थः, आयामविष्कम्भाभ्यां प्रत्येकमेकयोजनमानः उच्चत्वेनापि योजनप्रमाणः परिधिना तु किश्चिन्यूनषनागाधिकयोजनत्रयमानो य: पल्यः स इह पल्योपमं विज्ञेय इति तात्पर्य ॥ १९ ॥ अथ अयमेव पल्यो यत्स्वरूपैर्वालाप्रैः पूर्यते तदेतनिरूपयितुमाह-एगाहिये'त्यादि, एकेनाह्रा निर्वृत्ता एकाहिक्यः द्वाभ्यां त्रिमिश्चाहोमिनिष्पना व्याहिक्यरूयाहिक्यश्च तासामेकाहिकीद्व्याहिकीच्याहिकीनामेवं चतुराहिकीनां यावदुत्कर्षतः सप्तरात्रप्ररूढानां वालानामेवातिसूक्ष्मत्वादप्रकोटयो वालाप्रकोटयस्तासां भृतोऽसौ पल्यो त्राधिक्रियते, तत्र मुण्डिते शिरस्येकेनाह्रा यावत्प्रमाणा वालाप्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु या उत्तिष्ठन्ति ता व्याहिक्यः त्रिमिस्तु व्याहिक्यः एवं यावत्सप्तरात्रप्ररूढाः सप्तरात्रिक्य इति, कथं पुनस्तासां वालाप्रकोटीनां भृत इत्याह-संमृष्टः-आकर्ण पूरितः संनिचितः-प्रचयविशेषानिबिडीकृतः, किंबहुना, तथा कथञ्चनापि भृतोऽसौ पल्यो यथा तानि वालाप्राणि न वायुरपहरति नापि वहिर्दहति न च तेषु सलिलं प्रविश्य कोथमापादयति, तदुक्तम्-"ते णं वालग्गा नो अग्गी डहेजा नो वाऊ हरेजा नो सलिलं कुत्थेजा" [तान् वालाग्रान् नाग्निर्दहेत् न वायुहरेत् न सलिलं कोथयेत् ] इत्यादि ॥२०॥ ततः किमित्याह-तत्तो' इत्यादि, ततो-यथोक्तवालाप्रभृतपल्यात् समये समये-प्रतिसमयमेकैकस्मिन् वालाप्रेऽपहियमाणे यावान् कालो लगति, प्रतिसमयं वालाप्राकर्षणाद्यावता कालेन सकलोऽपि स पल्यः सर्वात्मना निलेपो भवतीत्यर्थः, तावान् कालो बादरमुद्धारपल्योपमं इत्यावृत्त्या प्रथमान्ततयाsप्यत्र सम्बद्ध्यते, कियान पुनरसौ काल इति कथ्यतामित्याह-खल्ववधारणे सक्येया एव समया अस्मिन् बादरे उद्धारपल्योपमे भवन्ति नासङ्ख्येयाः, वालाग्राणामप्यत्र सङ्ख्यातत्वात् तेषां च प्रतिसमयमेकैकापहारे सलयेयस्यैव समयराशेः सद्भावादिति ॥ २१ ॥ उक्तं बादरमुद्धारपल्योपमं, अथ क्रमप्राप्तमेव सूक्ष्ममुद्धारपल्योपमममिधित्सुराह-'एकेके त्यादि, अत:-सहजवालाप्रभृतपल्यादेकैकं लोम-पूर्वोक्तवालाप्रलक्षणं असङ्ख्येयानि खण्डानि यत्र तदसयेयखण्डमदृश्यं कृत्वा, एतदुक्तं भवति-पूर्व वालाप्राणि सहजान्येव गृहीतानि अत्र तु तान्येव वालाग्राणि प्रत्येकं तावदसत्कल्पनया खण्ड्यन्ते यावददृश्यतास्वरूपासयेयखण्डरूपतामेकैकं वाला भजत इति, तत्पुनरेकैकं वालाप्रखण्डं द्रव्यतोऽत्यन्तविशुद्धलोचनश्छद्मस्थः पुरुषो यदतीव सूक्ष्मं पुद्गलद्रव्यं चक्षुषा पश्यति तदसोयभागमात्र, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते तदसङ्ख्येयगुणक्षेत्रावगाहि द्रव्यप्रमाणं, तथा चानुयोगद्वारसूत्रम्-"तत्य णं एगमेगे वालग्गे असंखेज्जाइं खंडाई किजइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइभागमेत्तातो सुहुमस्स पणगजीवस्स सरीरोगाहणाउ असंखेजगुणा" [ तत्रैकैकस्य वालाग्रस्यासंख्येयानि खण्डानि क्रियते तानि वालाप्राणि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि सूक्ष्मस्य पनकजीवस्य शरीरावगाहनाया असंख्येयगुणानि] इति, वृद्धास्तु व्याचक्षते-बादरपर्याप्तपृथिवीकायशरीरतुल्यमिति, तथा चानुयोगद्वारमूलटीकाकृदाह हरिभद्रसूरिः-“बादरपृथिवीकायिकपर्याप्तशरीरतुल्यान्यसङ्ख्येयखण्डानी"ति वृद्धवादः, एवं कृत्वा ततः किं विधेयमित्यत्रोच्यते-ततोऽमीषां सर्वेषामपि समच्छेदानां-परस्परं तुल्यखण्डीकृतानां प्रत्येकं चाद्याप्यनन्तप्रादेशिकानामनन्तपरमाण्वात्मकानां तमेव पूर्वोक्तं पल्यं बिभृया-बुद्ध्या परिपूर्ण विदध्यास्त्वमिति ॥ २२ ॥ एवं च तस्मिन् भृते यत्कर्तव्यं तदाह-'तत्तो' इत्यादि, ततः -सूक्ष्मखण्डीकृतालाप्रभृतपल्यात्प्रतिसमयमेकैकस्मिन् सूक्ष्मवालाप्रखण्डेऽपहियमाणे यावान् कालो लगति तावत्प्रमाणं सूक्ष्ममुद्धारपल्योपमं भवतीति प्राग्वदत्रापि सम्बन्धः, कियान् पुनरसौ कालो भवतीत्याह-सङ्ख्येया वर्षकोट्यः सूक्ष्मे उद्धारपल्योपमे भवन्तीति ज्ञातव्यं, वालाप्राणामिह प्रत्येकमसङ्ख्येयखण्डात्मकत्वादेकैकस्यापि वालाप्रस्य सम्बन्धिनां खण्डानामपहारेऽसङ्ख्येयसमयराशिप्राप्तेः सर्ववालाप्रखण्डात्मकापहारे भवन्येव सङ्ख्याता वर्षकोट्यः ॥ २३ ॥ अथ बादरमद्धापल्योपमं प्रतिपादयितुमाह-वासे'त्यादि, तस्मिन्नेवोत्सेधागालप्रमितयोजनप्रमाणायामविष्कम्भोद्वेधे पल्ये पूर्वोक्तसहजबादरवालाप्रैर्निभृतं भृते सति प्रति वर्षशतमेकैकं वालाप्रमप 202
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy