________________
विधं, विशेषः पुनरयं-'नवि मरइ ताणि पुणो'त्ति अपिशब्दस्यैवकारार्थत्वान्नैव तानि-द्रव्यादीनि पुनर्मियते, अयमर्थः-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीत्येवं यन्मरणं तद् द्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, एवं क्षेत्रादिष्वपि वाच्यम् ॥ ९॥ वलन्मरणमाह-संजमें'त्यादि, संयमयोगा:-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा:-अतिदुश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं च कुलादिलज्जया मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितः कष्टानुष्ठानान्मुक्तिर्भवत्विति विचिन्तयन्तो म्रियन्ते यच्च तद्बलतां-संयमानुष्ठानान्निवर्तमानानां मरणं वलन्मरणं, तुशब्दो विशेषणार्थो भनव्रतपरिणतीनां व्रतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः १ तदभावे च कथं तदिति ॥ वशार्तमरणमाह
-'इंदियेत्यादि, इन्द्रियाणां-चक्षुरादीनां विषया-मनोज्ञरूपादय इन्द्रियविषयाः तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकावलोकनाकुलशलभवन्नियन्ते तद्वशार्तमरणं, वशेन-इन्द्रियविषयपारतत्र्येण ऋता:-पीडिता वार्ताः तेषां मरणमप्युपचाराद्वशातमुच्यते इति ॥ १० ॥ अन्तःशल्यमरणमाह-गारवे'त्यादि, गौरवं-सातद्धिरसगौरवात्मकं तदेव कालुष्यहेतुतया पङ्कःकर्दमः तस्मिन्निमग्नाः तत्क्रोडीकृततया अतिचार-अपराधं ये परस्य-आलोचनाहस्याचार्यादेनं कथयन्ति, मा भूदस्माकमालोचनाईमाचार्यादिकमुपसर्पतां तद्वन्दनादितदुक्ततपोऽनुष्ठानासेवनेन ऋद्धिरससाताभावसम्भव इति, उपलक्षणं चैतत् , ततो बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अयं च ज्ञानहीनोऽयं वा मम सम इत्यभिमानेन लज्जया वा-अनुचितानुष्ठानसंवरणस्वरूपया येऽतिचारं न कथयन्तीति, किंविषयमित्याह-दर्शनज्ञानचारित्रे-दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषय समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यतया सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति तेषां-गौरवपकनिमग्नानामिति ॥ ११ ॥ तद्भवमरणपाह
–'मोत्तुं' इत्यादि, मुक्त्वा -अपहाय, कान् ?-अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिषूत्पन्नतया नरतियश्चश्चाकर्मभूमिजनरतिर्यञ्चस्तान , तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा सुरगणांश्च-सुरनिकायान् , किमुक्तं भवति ?-चतुर्निकायवर्तिनोऽपि देवान् , तथा निरयो-नरकस्तस्मिन् भवा नैरयिकास्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, शेषाणां-एतदुद्धरितानां कर्मभूमिजनरतिरश्चां जीवाना-प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद् विद्यते यस्मिन् भवे-तिर्यग्मनुष्यलक्षणे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषख्यापकः, असङ्ख्येयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु केषाञ्चित्तद्भवोपादानरूपमेवायुःकर्मोपचिन्वतामिति ॥ १२ ॥ अत्रान्तरे-आवीई इति गाथा सूत्रे दृश्यते न चास्या भावार्थः सम्यगवगम्यते नाप्यसावुत्तराध्ययनचूादिषु व्याख्यातेत्युपेक्ष्यते ॥ १३ ॥ सम्प्रति बालपण्डितमिश्रमरणान्याह-'अविरयेत्यादि, विरमणं विरतं-हिंसानृतादेरुपरमणं न विद्यते तद्येषां तेऽविरतास्तेषां--मृतिसमयेऽपि देशविरतिमप्यप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दृशां वा मरणमविरतमरणं तद् बाला इव बाला:-अविरतास्तेषां मरणं बालमरणमिति ब्रुवते इति सम्बन्धः, तथा विरताना-सर्वसावद्यनिवृत्तिमभ्युपगतानां मरणं पण्डितमरणं ब्रुवते तीर्थकरगणधरादय इति, तथा जानीहि बालपण्डितमरणं-मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषद्योतनार्थः, देशात्सर्वविरतविषयापेक्षया स्थूलप्राणिव्यपरोपणादेर्विरता देशविरतास्तेषां देशविरतानां ॥ १४ ॥ एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छप्रस्थमरणकेवलिमरणे प्राह-'मणपजवो' इत्यादि, मनःपर्यायज्ञानिनोऽवधिज्ञानिनः श्रुतज्ञानिनो मतिज्ञानिनश्च नियन्ते ये श्रमणा:-तपस्विनः छायन्तीति छद्मानि-ज्ञानावरणादीनि कर्माणि तेषु तिष्ठन्तीति छद्मस्थास्तेषां मरणं छद्मस्थमरणमेतत् , इह च प्रथमतो मनःपर्यायनिर्देशाद्विशुद्धिकृतप्राधान्याङ्गीकारेण चारित्रिण एतदुपजायते इति खामिकृतप्राधान्यापेक्षया द्रष्टव्यं, एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुवाच्य इति, तथा केवलमरणं केवलिनः-उत्पन्नकेवलज्ञानस्य सकलकर्मपुद्गलशाटनतो म्रियमाणस्य भवतीति ॥ १४ ॥ साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाह-'गिद्धाई'त्यादि, गृध्राः-प्रतीताः ते आदिर्येषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्वादात्मनस्तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणं, तत्किमुच्यते ? इत्याह-गिद्धपिट्ट'त्ति गृधैः स्पृष्टं-स्पर्शनं यस्मिन् तद् गृध्रस्पृष्टं यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यम्मिन् तद् गृध्रपृष्ठं, स ह्यलक्तकपूणिकापुटप्रदानेनात्मानं गृध्रादिभिः पृष्ठादौ भक्षयतीति, पश्चानिर्दिष्टस्यापि तस्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम् , 'उब्बंधणाइ वेहासमिति उद्-ऊर्द्ध वृक्षशाखादी बन्धनमुद्बन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मनैव जनितस्य मरणस्य तदु
बन्धनादि, 'वेहासमिति प्राकृतत्वाद्यलोपे विहायसि-व्योमनि भवं वैहायसं, उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तमिति, नन्वेवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायस एवान्तर्भावः, सत्यमेतत् केवलमस्याल्पसत्त्वैर्विधातुमशक्यत्वख्यापनार्थ भेदोपन्यासः, ननु-भावियजिणवंयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परम्मि य तो वजे पीडमुभओऽवि ॥१॥' [भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि च परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १॥] इत्यागमः, एते चानन्तरोक्ते मरणे अत्यन्तमात्मपीडाकारिणी इति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय 'चत्तारि विचित्ताई। विगईनिज्जूहियाइं चत्तारि ॥ [चत्वारि (वर्षाणि) विचित्राणि विकृति नियूढानि चत्वारि ] इत्यादिसंलेखनाविधिः पान
200