SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ रालय ९ तिल १० मुग्ग ११ मासा १२ य ॥ ४ ॥ अयसि १३ हरिमंथ १४ तिउगड १५ निप्फाव १६ सिलिंद १७ रायमासा १८ य।इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥५॥ धान्यानि चतुर्विशतिर्भवन्ति, यथा-यवाः १ गोधूमाः २ शालयो ३ बीयः ४ षष्ठिकाः ५ कोद्रवा ६ अणुकाः ७ कंगुः ८ रालकः ९ तिला १० मुद्गा ११ माषाश्च १२ तथा अतसी १३ हरिमन्थाः १४ त्रिपुटिकाः १५ निष्पावाः १६ शिलिन्दा १७ राजमाषा १८ इक्षवः १९ मसूराः २० तुवर्यः २१ कुलत्था २२ स्तथा धान्यकं २३ कलायाः २४ इत्येतानि च प्रायेण लोकप्रसिद्धानि प्रागुक्तान्येव, नवरं षष्टिकाः-शालिभेदः ये षष्टिरात्रेण पच्यन्ते, अणुका-युगन्धरी, बृहच्छिरा कङ्गः अल्पतरशिरो रालकः, हरिमन्थाः-कृष्णचणकाः शिलिन्दा-मकुष्टाः राजमाषा:-चवलकाः धान्यकं-कुसुम्भरी कलाया-अत्र वृत्तचणका इति १५६ ॥ ४ ॥ ५॥ अधुना 'मरणं सत्तरसभेयंति सप्तपञ्चाशदधिकशततमं द्वारमाह आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसहमरणं च ५ । अंतोसल्लं ६ तब्भव ७ घालं ८ तह पंडियं ९ मीसं १०॥ ६॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्ठमरणं १४ च। मरणं भत्तपरिन्ना १५ इंगिणि १६ पाओवगमणं च १७ ॥७॥ अणुसमयनिरंतरमाविइसनियं तं भणंति पंचविहं । दवे खेत्ते काले भवे य भावे य संसारे ॥ ८॥ एमेव ओहिमरणं जाणि मओ ताणि चेव मरइ पुणो । एमेव आइअंतियमरणं नवि मरइ ताणि पुणो ॥९॥ संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वस तु ॥१०॥ गारवपकनिबुड्डा अइयारं जे परस्स न कहंति । दसणनाणचरित्से ससल्लमरणं हवह तेसिं॥११॥ मोत्तुं अकम्मभूमिय नरतिरिए सुरगणे य नेरइए। सेसाणं जीवाणं तब्भवमरणं च केसिंचि ॥१२॥ मोत्तूण ओहिमरणं आवी(ई)यंतियंतियं चेव। सेसामरणासवे तब्भवमरणेण नायवा॥१३॥अविरयमरणं बालं मरणं विरयाण पंडियं विति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥१४॥ मणपज्जवोहिनाणी सुयमइनाणी मरंति जे समणा। छउमत्थमरणमेयं केवलिमरणं तु केवलिणो ॥१५॥ गिद्धाइभक्खणं गिद्धपिट्ठ उब्बंधणाइ वेहासं । एए दोन्निवि मरणा कारणजाए अणुनाया॥१६॥ मरणं भत्तपरिन्ना इंगिणि पायवगमणं च तिन्नि मरणाई। कन्नसमज्झिमजेट्टा घिइसंघयणेण उ विसिहा ॥ १७॥ "आवीई'त्यादि, मरणशब्दस्य प्रत्येकममिसम्बन्धादावीचिमरणं अवधिमरणं 'अंतिय'ति आत्यन्तिकमरणं आर्षत्वाचेत्थं निर्देशः एवमुत्तरत्रापि, 'वलायमरणं'ति वलन्मरणं वशार्तमरणं च अन्तःशल्यमरणं तद्भवमरणं बालमरणं तथा पण्डितमरणं मिश्रमरणं छप्रस्थमरणं केवलिमरणं 'वेहायसं'ति वैहायसमरणं गृध्रपृष्ठं च मरणं "भत्तपरिन्न'त्ति भक्तपरिज्ञामरणं इंगिनीमरणं पादपोपगमनमरणं चेति ॥६॥७॥ एतानि क्रमशः स्वयमेव विवरीषुरावीचिमरणं तावदाह-'अणुसमय'मित्यादि, अनुसमय-समयमाश्रित्य, इदं च व्यवहितसमयाश्रयणतोऽपि भवतीति मा भूद्धान्तिरत आह-निरन्तरं-असान्तरमन्तरालाभावात् , किं तदेवंविधं ?-'आवीचिसंज्ञितं' आ-समन्तात् वीचय इव वीचय:-प्रतिसमयमनुभूयमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन् मरणे तदावीचि, तत आवीचीति संज्ञा सजाता यस्मिन् तदावीचिसंज्ञितं, तारकादित्वादितचि रूपमिदं, अथवा वीचिः-विच्छेदस्तभावोऽवीचिः, दीर्घत्वं तु प्राकृतत्वात् , उभयत्र प्रक्रमान्मरणं, तदेवम्भूतं प्रतिक्षणमायुर्द्रव्यविचटनलक्षणमावीचिमरणं पञ्चविधं भणन्ति तीर्थकरगणधरादयोऽस्मिन् संसारे-जगति, पञ्चविधत्वमेवाह-द्रव्ये क्षेत्रे काले भवे भावे च, द्रव्याऽऽवीचिमरणं क्षेत्राऽऽवीचिमरणं कालाऽऽवीचिमरणं भवाऽऽवीचिमरणं भावाऽऽवीचिमरणं चेत्यर्थः, तत्र द्रव्याऽऽवीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृति निजनिजायु:कर्मदलिकानामनुसमयमनुभवनाद्विचटनं, तच्च नारकादिभेदाच्चतुर्विधं, एवं नारकादिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्विधं ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्धेव, काल इति यथायुष्ककालो गृह्यते, न तु अद्धाकालस्तस्य देवादिष्वसम्भवात् , स च देवायुष्ककालादिभेदाच्चतुर्विधः, अतस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधमेव, नारकादिचतुर्विधभवापेक्षया भवावीचिमरणमपि चतुर्थैव, तेषामेव च नारकादीनां चतुर्विधायुःक्षयलक्षणभावप्राधान्यापेक्षया भावावीचिमरणमपि चतुधैवेति ॥ ८ ॥ अथावधिमरणमाह-'एवमेवे'त्यादि, एवमेव यथाऽऽवीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं तथेदमवधिमरणमपीत्यर्थः, तत्स्वरूपमाह-यानि मृतः सम्प्रतीति शेषः तानि चैव 'मरइ पुण'त्ति तिव्यत्ययेन मरिष्यति पुनः, किमुक्तं भवति ?-अवधिः-मर्यादा ततश्च यानि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते पुनर्यदि तान्येवानुभूय मरिष्यति तदा द्रव्यावधिमरणं, तद्व्यापेक्षया पुनस्तद्हणावधेर्यावजीवस्य मृतत्वात् , सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति, एवं क्षेत्रकालादिष्वपि भावना कार्या । आत्यन्तिकमरणमाह-एमेवे'त्यादि, एवमेव-अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्च 199
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy