SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ८१० विंशतिरसमाधिस्थानानि भवइ २ दुप्पमज्जियचारि आवि भवइ ३ अतिरित्तसज्जासणिए ४ रातिणिअपरिभासी ५ थेरोवघाइए ६ भूओवघाइए ७ संजलण्णे ८ कोहणे ९ पिट्ठिमंसिए १० अभिक्खणं २ ओहारइत्ता भवइ ११ णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवइ १२ पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरेत्ता भवइ १३ ससरक्खपाणिपाए १४ अकालसज्झायकारए यावि भवइ १५ कलहकरे १६ सहकरे १७ झंझकरे १८ सूरप्पमाणभोई १९ एसणाऽसमिते २० आवि भवइ । (छाया- विंशतिरसमाधिस्थानानि प्रज्ञप्तानि, तद्यथा - दवदवचारी चापि भवति १ अप्रमार्जितचारी चापि भवति २ दुष्प्रमार्जितचारी चापि भवति ३ अतिरिक्तशय्यासनिकः ४ रानिकपरिभाषी ५ स्थविरोपघातिकः ६ भूतोपघातिकः ७ सज्वलनः ८ क्रोधनः ९ पृष्ठिमांसाशिक: १० अभीक्ष्णं २ अवधारयिता भवति ११ नवानां अधिकरणानामनुत्पन्नानां उत्पादयिता भवति १२ पुरातनानामधिकरणानां क्षामितव्यवशमितानां पुनरुदीरयिता भवति १३ सरजस्कपाणिपादः १४ अकालस्वाध्यायकारकश्चापि भवति १५ कलहकरः १६ शब्दकरः १७ झञ्झाकरः १८ सूरप्रमाणभोजी १९ एषणाऽसमितश्चापि भवति २० ।) वृत्तिः - तत्र समाधानं समाधिः - चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थः न समाधिरसमाधिस्तस्याः स्थानानि - आश्रयभेदाः पर्याया वा असमाधिस्थानानि, तत्र 'दवदवचारि' त्ति यो हि द्रुतं द्रुतं चरति-गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरासमाधिस्थानापेक्षया समुच्चयार्थः, भवतीति प्रसिद्धं, स च द्रुतं द्रुतं संयमात्मनिरपेक्षो व्रजन्नात्मानं प्रपतनादिभिरसमाधौ योजयति अन्यांश्च सत्त्वान् घ्नन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतगन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयं १, तथा अप्रमार्जितचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदनत्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता अतिप्रमाणा शय्या-वसतिरासनानि च-पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, स च अतिरिक्तायां शय्यायां लङ्घशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्ति इति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येनापि वाच्यमिति ४, तथा रात्निकपरीभाषी आचार्यादिपूज्यपुरुषपराभवकारी, स चात्मानमन्यांश्चासमाधौ योजयत्येव ५, तथा स्थविरा-आचार्यादिगुरवः तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वोपहन्तीत्येवंशीलः स एव चेति स्थविरोपघातिकः ६, तथा भूतानि एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः ७, तथा सवलतीति सञ्चलनः
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy