SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 466 स तौल्यतः पञ्चचत्वारिंशद्धारात्मको भवेत् । आढकानां शतान्यष्टादश मेयप्रमाणतः ॥ २७८ ॥ तौल्यतो नवतिर्भारा, मास: पक्षद्वयात्मकः । षट्त्रिंशदाढकशतान्येष मेयप्रमाणतः ॥ २७९ ॥ मासैर्द्वादशभिश्चैकः, कर्मसंवत्सरो भवेत् । शतानि त्रीणि षष्ट्याढ्यान्यत्र रात्रिन्दिवानि च ॥ २८० ॥ तौल्ये सहस्रं साशीतिर्भाराणां स्यात्स मानतः । त्रिचत्वारिंशत्सहस्राण्याढकानां द्विशत्यपि ॥ २८९ ॥ ऋतुसंवत्सरोऽप्येष, ऋतुषट्कात्मको भवेत् । ऋतवो हि वसंताद्याः, पृथग्मासद्वयात्मकाः ॥ २८२ ॥ किञ्च संवत्सराः पञ्चविधाः प्रोक्ता जिनेश्वरैः । सूर्यर्त्तचन्द्रनक्षत्राह्वयास्तथाऽभिवर्द्धितः ॥ २८३॥ तत्र च–द्विमण्डलालीचारेण, मार्त्तण्डेनायनद्धये । परिपूर्णे कृते पूर्णः, सूर्यसंवत्सरो भवेत् ॥ २८४ ॥ सत्र्यशीतौ मण्डलानां शते चारो भवेद्रवेः । एकस्मिन्नयने तस्मात्सत्र्यशीतिशतं दिनाः ॥ २८५ ॥ षट्षष्ट्याऽभ्यधिका चैवमहोरात्रशतत्रयी । सूर्यसंवत्सरे दृष्टा, विशिष्टज्ञानदर्शनैः ॥ २८६ ॥ सर्वे कालविशेषा ये, ख्याता वर्षशतादयः । पूर्वाङ्गपूर्वप्रमुखाः, पल्यवादर्ध्यादयोऽपि च ॥ २८७ ॥ कर्मणां स्थितयः सर्वा, आयूंष्यखिलदेहिनाम् । सूर्यवर्षप्रमाणेन ज्ञेयान्येतानि धीधनैः ॥ २८८ ॥ नन्वत्र वक्ष्यते वर्षैर्युगं चन्द्राभिवर्द्धितैः । युगाधीनं चान्यकालमानं वर्षशतादिकम् ॥ २८९ ॥ कथं तदिह निर्द्दिष्टाः, सर्वे वर्षशतादयः । कालाः सूर्याब्दमानेन, तत्राकर्णयतोत्तरम् ॥ २९० ॥ युगं यदुच्यते तत्स्याच्चांद्रैस्संवत्सरैस्त्रिभिः । द्वाभ्यां चाभिवर्द्धिताभ्यामिति तत्पञ्चवार्षिकम् ।। २९१ ॥ सूर्यवर्षप्रमाणेन, तदेव यदि चिन्त्यते । तदापि तुल्यमेव स्यात्पञ्चवर्षात्मकं युगम् ॥ २९२ ॥ तथाहि - सूर्याब्दस्य सषट्षष्टिरहोरात्रशतत्रयी । पञ्चनाष्टादशशतास्त्रिंशाः स्युर्युगवासराः ॥ २९३ ॥ इयन्त एव द्वाषष्टिचन्द्रमासात्मके युगे । वासराः स्युस्ततो नार्थभेदः कोऽप्यत्र वास्तवः ॥ २९४ ॥ ततो युगैर्मीयते यत्संवत्सरशतादिकम् । तत्सूर्यवर्षमानेनेत्यादि युक्तं यथोदितम् ॥ २९५ ॥ स्यात्पूर्णिमापरावर्तैरब्दं द्वादशभिर्विधोः । चतुःपञ्चाशदधिक महोरात्रशतत्रयम् ।। २९६ ।। अहोरात्रस्य चैकस्य, द्वादशांशा द्विषष्टिजा: । चन्द्रसंवत्सरे मानमित्युक्तं सर्वदर्शिभिः ॥ २९७ ।। नक्षत्रैः सप्तविंशत्या, यः साकल्येन शीतगोः । योगः स द्वादशगुण, ऋक्षोब्दं मानमस्य च ॥ २९८ ॥ सप्तविंशतिसंयुक्तमहो रात्रशतत्रयम् । अहोरात्रस्यैकपञ्चाशच्चांशाः सप्तषष्टिजाः ।। २९९ ।। अभिवर्द्धितमब्द च, त्रयोदशभिरैन्दवैः । मासैर्भवेदस्य मानमेवमुक्तं महर्षिभिः ।। ३०० ।। युक्तं त्र्यशीत्याहोरात्रैरहोरात्रशतत्रयम् । चतुश्चत्वारिंशदहोरात्रांशाश्च द्विषष्टिजाः ॥ ३०१ ॥ अथ क्रमेण पञ्चानां, मासानां मानमुच्यते । सूर्यर्त्तृचन्द्रनक्षत्राभिवर्द्धितक संज्ञिनाम् ॥ ३०२ ॥ स्वस्वसंवत्सराणां हि, भागे द्वादशभिर्हते । स्वीयस्वीयमासमानं जायते तदिदं यथा ॥ ३०३ ॥ सार्द्धास्त्रिंशदहोरात्रा, मासमानं भवेद्रवेः । ऋतुमासः पुनस्त्रिंशदहोरात्रात्मकः स्फुटः ॥ ३०४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy