________________
465
तत्र स्यात्प्रथमा रेखा, कर्षार्द्धस्यैव सूचिका । द्वितीयैकस्य कर्षस्य, तृतीया कर्षयोर्द्धयोः ॥ २५६ ॥ त्रिकर्षसूचिका तुर्या, स्याच्चतुःकर्षसूचिका । पञ्चम्यथ नव रेखाः, स्युरेकैकपलाधिका: ॥ २५७ ॥ यथा तत्र भवेद्रेखा, षष्ठी द्विपलसूचिका । एवं यावद्दशपलसूचिका स्याच्चतुर्दशी ॥२५८ ॥ ततश्च द्वादशपलसूचिका पञ्चदश्यसौ । षोडशी च पञ्चदशपलाभिव्यञ्जिका स्मृता ॥ २५९ ॥ ततः सप्तदशी रेखा, पलविंशतिसूचिका । अत ऊर्ध्वं च दशकवृद्धा अष्टाप्यमूः स्मृताः ॥ २६० ॥ अष्टादशी यथा रेखा, स्यात्रिंशत्पलसूचिका । क्रमादेवं शतपलसूचिका कीर्तितान्तिमा ॥ २६१ ॥ पञ्चपञ्चदशत्रिंशत्पञ्चाशत्पलसूचिका । नवमी षोडशी चाष्टादशी च पञ्चविंशिका ॥ २६२ ॥ एताश्चतस्रो रेखाः स्युः, फुल्लफुल्लडिकायुताः । स्युः शेषा ऋजवः सर्वा, एकविंशतिसंमिता: ॥ २६३ ॥ तुलास्वरूपमित्येवं, यथागममुदीरितम् । प्रमाणमथ मेयस्य, यथागममुदीर्यते ॥ २६४ ॥ देशेषु मगधाख्येषु प्रसिद्धं कुडवाभिधम् । मानं स्यात्तौल्यचिंतायां सकर्षाद्धं पलत्रयम् ॥ २६५ ॥ चतुर्भिः कुडवैरेकः, प्रस्थो मागधिको भवेत् । सार्दानि द्वादश पलान्येष तौल्यप्रमाणतः ॥ २६६ ॥ प्रस्थैश्चतुर्भिरेकः स्यादाढकः प्रथितो जने । पञ्चाशत्पलमानोऽयं, ज्ञेयस्तौल्यविवक्षया ॥ २६७ ॥ चतुर्भिराढकैोणो, जने सोऽप्यतिविश्रुतः । पलानां द्वे शते ख्यातः, स च तौल्यप्रमाणत: ॥ २६८ ॥ खारी षोडशभिर्द्राणैः सा स्यात्तौल्यप्रमाणत: । द्वात्रिंशता पलशतैः, संमिता लोकसंमता ॥ २६९ ॥ वाहः स्यादिशतिः खार्यः, स भवेत्तौल्यमानत: । चतुःषष्टिः सहस्राणि, पलानां तुलया धृतः ॥ २७० ॥ अथ प्रकृतंकालेन यावता तस्यां, नालिकायां विशेज्जलम् । आढको दौ सुरन्ध्रेण, तावान् कालो हि नालिका ॥ २७१ ॥ भवेत्पलशतं चैतत्तुलया तुलितं जलं । तच्च स्वभावत: स्वच्छ:मेष्टव्यं शारदादिकम् ॥ २७२ ॥ देवः श्रीसर्वज्ञो विश्वश्रीश: सिद्धिस्त्रीकान्तः, कामद्रोहाग्निर्मायादोषाभास्वान्नीरागः । चन्द्रश्वेतश्लोकः स्यादादारामोदो लोकार्यो, वान्तापाय: शान्तो लोकेभ्योऽसंख्यं सौख्यं देयात् ॥ २७३॥ अद्रुतमन्थरमध्यमगत्या पठनेऽस्य भवति वृत्तस्य । कामक्रीडाछन्दसि षष्टया गुर्वक्षरैः पलं लोके॥२७४ ॥
सूक्ष्मेक्षिकार्थिनां चैवं वाच्यं-संगीतशास्त्रप्रसिद्धस्य पञ्चमात्रिकतालस्याविच्छेदेन चतुर्विंशतिवारान् हस्तमुखाभ्यामुद्घट्टने सर्वथाप्यविसंवादि जलपलमेकं स्यादिति लौकिकज्योतिः
शास्त्रानुसारेण पलमानं, एभिश्च षष्ट्या पलैर्घटिकापरपर्याया नाडिकेति । नाडिकाभ्यां भवेद् द्धाभ्यां, मुहूर्तस्तौल्यत: स च । पलानां वे शते मानाच्चत्वारो नूनमाढकाः ॥ २७५ ॥ अहोरात्रो मुहूत्तैः स्यात्त्रिंशता षष्टिनालिक: । स तौल्यतस्त्रयो भाराः, षट्सहस्रा: पलानि वा ॥ २७६ ॥ मेयप्रमाणचिंतायां, सविंशं शतमाढकाः । पक्षः पुनरहोरात्रैः, स्यात्पञ्चदशभिर्बुवं ॥ २७७ ॥