________________
404
मत्स्यास्तु वलयाकारा न भवेयुरयं पुन: । संभवेदलयाकारोऽप्यसौ नानाकृतिस्ततः ॥ ५०९ ॥ तथोक्तं संग्रहणीवृत्तौ“नाणागारो तिरिए, मणुए मच्छा संयभूरमणेव । तत्थ वलयं निसिद्धं, तस्स पुण तयंपि होज्जाहि” ॥ वैमानिकानां सर्वेषां, जघन्योऽवधिगोचरः । अङ्गलासंख्येयभागमानो ज्ञेयो मनस्विभिः ॥ ५१० ॥ ननु सर्वजघन्योऽसौ, नृतिर्यक्ष्वेव संभवेत् । सर्वोत्कृष्टो नरेष्वेव, राद्धान्तोऽयं व्यवस्थितः ॥ ५११ ॥ तथोक्तं—“उक्कोसो मणुएसुं मणुस्सतेरिच्छिएसु अ जहन्नो”त्ति, [विशेषावश्यक श्लो. ७०६] कथं वैमानिकानां तत्, प्रोक्तः सर्वजघन्यकः । अङ्गलासंख्येयभागमात्रोऽथात्र निरूप्यते ॥ ५१२ ॥ केषाञ्चिदिह देवानामुत्पत्तौ तादृशोऽवधिः । भवेत्प्राग्भवसंबन्धी, स जघन्योऽत्र दर्शितः ॥ ५१३ ॥ आगमे तु नैष पारभविकत्वाद्विवक्षितः । तथा च भगवानाह, क्षमाश्रमणपुङ्गवः ॥ ५१४ ॥ वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ । उववाए परभविओ, तब्भवजो होइ तो पच्छा” ॥
[विशेषावश्यक श्लो. ७०५] मृदङ्गाकृतिरित्येवं, वैमानिकावधिर्भवेत् । ऊर्ध्वायतो मृदङ्गो हि, विस्तीर्णोऽधः कृशो मुखे ॥ ५१५ ॥ स्थितिमानमथ द्वैध, जघन्योत्कृष्टभेदतः । सौधर्मशानदेवानां, प्रतिप्रतरमुच्यते ॥ ५१६ ॥ एकस्य सागरस्यांशाः, प्रकल्प्यन्ते त्रयोदश । प्रथमप्रतरे भागौ, तादृशौ द्रौ परा स्थितिः ॥ ५१७ ॥ द्वितीयप्रतरे भागाश्चत्वारस्तादृशाः स्थितिः । तृतीये षट् चतुर्थेऽष्टौ, पञ्चमे च लवा दश ॥ ५१८ ॥ षष्ठे द्वादश भागास्ते, सप्तमे सागरोपमम् । एकं त्रयोदशेनैकभागेनाभ्यधिका स्थितिः ॥ ५१९ ॥ त्रिभिस्त्रयोदशै गैरधिकं सागरोपमम् । अष्टमे प्रतरे ज्ञेयं, नवमे पञ्चभिश्च तैः ॥ ५२० ॥ दशमे सप्तभिर्भागैरधिकं सागरोपमम् । एकादशे च नवभिर्दादशे प्रतरे पुनः ॥ ५२१ ॥ एकादशभिरंशैस्तैः, साधिकं सागरोपमम् । त्रयोदशे च प्रतरे, पूर्णे हे सागरोपमे ॥ ५२२ ॥ त्रयोदशस्वपि तथा, प्रतरेषु जघन्यतः । स्थिति: पल्योपममेकं, नास्माद्धीना भवेदिह ॥ ५२३ ॥ कल्पेषु शेषेष्वप्येवं, या या यत्र जघन्यत: । एकरूपैव सा सर्वप्रतरेषु भवस्थितिः ॥ ५२४ ॥ न त्वाद्यप्रतरोत्कृष्टा, प्रतरे ह्युत्तरोत्तरे । जघन्यत: स्थितिश्चिन्त्या, नरकप्रस्तटादिवत् ॥ ५२५ ॥ एवमीशानेऽपि भाव्या, स्थिति: सौधर्मवबुधैः । वाच्या किन्त्वधिका किञ्चिज्जघन्या परमापि च ॥ ५२६ ॥ अधिकत्वं तु सामान्यान्निरूपितमपि श्रुते । पल्योपमस्यासंख्येयभागेनाहुमहर्षयः ॥ ५२७ ॥ संग्रहणीवृत्त्यभिप्रायोऽसौ ॥ सप्तहस्तमितं देहमिह स्वाभाविकं भवेत् । अङ्गलासंख्येयभागमानमेतज्जघन्यतः ॥ ५२८ ।। कृत्रिमं वैक्रियं तत्तु, लक्षयोजनसंमितम् । इदमङ्गलसंख्येयभागमात्रं जघन्यतः ॥ ५२९ ।। जघन्यं द्वैधमप्येतत्प्रारम्भसमये भवेत् । कृत्रिमं वैक्रियं त्वेतत्तुल्यमेवाच्युतावधि ॥ ५३० ॥