________________
403
तथाहुः—“अत्थि णं भंते ! इमीसे स्यणप्पहाए अहे उराला बलाहया संसेयंच्छिं वासं वासंति, ? हंता अत्थि, तिन्निवि पकरेंति देवोऽवि असुरोऽवि नागोऽवि, एवं दोच्चाए पुढवीए भाणियव्वं, एवं तच्चाए पुढवीए भा०, नवरं देवोऽवि प०, असुरोवि प०, नो नागो, एवं चउत्थीएवि, नवरं देवो एक्को प०, नो असु० नो नाओ, एवं हेडिल्लासु सव्वासुदेवो को प०, नो नाओत्ति, नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते 'नो असुरो नो नाओ'त्ति इहाप्यत एव वचनाच्चतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते ” भगवतीसूत्रवृत्तौ षष्ठशतकअष्टमोद्देशके, तत्त्वार्थवृत्तौ तु “ येषां द्वे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च सनत्कुमारकल्पात्प्रभृति लभ्यन्ते, शक्तिमात्रं चैतद्वर्ण्यते, न पुनः कदाचिदप्यगमन्, तिर्यगसंख्येयानि योजनकोटीनां कोटिसहस्राणि, ‘तत: परमि’त्यादि, सागरोपमद्धयादधो जघन्या स्थितिर्येषां न्यूना न्यूनतमा चेति ते चैकैकहीनां भुवमनुप्राप्नुवन्तियावतृतीया पृथिवी, तां च तृतीयां पूर्वसंगतिकाद्यर्थं गता गमिष्यन्ति, परतस्तु सत्यामपि शक्तौ न गतपूर्वा नापि गमिष्यन्ति औदासीन्यात् - माध्यस्थ्याद्, उपर्युपरि न गतिरतयो देवा जिनाभिवन्दनादीन् मुक्त्वे "ति, पञ्चसंग्रहे तु — “सहसारंतिअदेवा नारयनेहेण जंति तइयभुवं । निज्जति अअं जा अच्चुअदेवेण इयरसुरा ॥ १ ॥ एतट्टीकायामपि श्रीमलयगिरिविरचितायां— आनतादयो देवाः पुनरल्पस्नेहादिभावात् स्नेहादिप्रयोजनेनापि नरकं न गच्छंतीति सहस्रारांतग्रहण" मिति ।
एवं मित्रादिसाहाय्यादिनोर्ध्वं यावदच्युतम् । यान्त्यायान्ति च कल्पस्थाः, परतस्तु न जातुचित् ॥ ४९७ ॥ केचित्त्वत्पर्द्धिका देवा, यावच्चत्वारि पञ्च वा । देवावासानतिक्रम्य, स्वशक्त्या परतस्ततः ॥ ४९८ ॥ गन्तुं न शक्नुवन्त्यन्यसाहाय्यात् शक्नुवन्त्यपि । महर्द्धिकानां मध्येऽपि, नैवामी गन्तुमीशते ।। ४९९ ॥ अल्पर्द्धिकानां मध्ये तु, सुखं यान्ति महर्द्धिकाः । समर्द्धिकानां मध्ये चेद्यियासन्ति समर्द्धिकाः ॥ ५०० ॥ तदा विमोह्य महिकाद्यन्धकारविकुर्वणात् । अपश्यत इमान् देवानतिक्रामन्ति नान्यथा ॥ ५०१ ॥ तथोक्तं — “आतिड्ढीएणं भंते ! देवे जाव चत्तारि पंच देवावासंतराई विइकुंते, तेण परं परिड्ढीएणं,” इत्यादि, भगवतीदशमशतकतृतीयोद्देशके ।
सौधर्मेशानयोर्देवलोकयोरथ नाकिनः । उत्कृष्टस्थितयः शक्रशक्रसामानिकादयः ॥ ५०२ ॥ रत्नप्रभायाः सर्वाधोभागं यावदधो दिशि । स्वयोग्यं मूर्त्तिमद्द्रव्यं, पश्यन्त्यवधिचक्षुषा ॥ ५०३ ॥ तिर्यग्दिशि त्वसंख्येयान्, पश्यन्ति द्वीपवारिधीन् । ऊर्ध्वं स्वस्वविमानानां चूलिकाग्रध्वजावधि ।। ५०४ ॥ अनुत्तरान्ताः सर्वेऽप्यसंख्येयान् द्वीपवारिधीन् । तिर्यक् प्रपश्यन्त्यधिकाधिकान् किंतु यथोत्तरम् ॥ ५०५ ॥ वैमानिकानां यदधोऽवधिर्भूम्ना विजृम्भते । भवनेशव्यन्तराणामूर्ध्वं भूम्ना प्रसर्पति ॥ ५०६ ॥ ज्योतिषां नारकाणां तु, तिर्यग् भृशं प्रसर्पति । नृतिरश्चामनियतदिक्को नानाविधोऽवधिः ॥ ५०७ ॥ स्वयंभूरमणाम्भोधौ यथा मत्स्या जगद्गतैः । भवन्ति सर्वैराकारैर्नृतिर्यगवधिस्तथा ॥ ५०८ ॥