SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 348 हैमवतं हरिवर्षं, पञ्च पञ्च पृथक् पृथक् । सर्वाण्यपि त्रिंशदेवं भवन्त्यकर्मभूमयः ॥ २०४ ॥ अन्तर्दीपाश्च षट्पञ्चाशदेवं युग्मिभूमयः । षडशीतिर्नरस्थानान्येवमेकोत्तरं शतम् ॥ २०५ ॥ तथाऽत्र मेवः पञ्च, विंशतिर्गजदन्तकाः । वक्षस्काराद्रयोऽशीतिः, सहस्रं काञ्चनाचलाः ॥ २०६ ॥ विचित्रा: पञ्च चित्राश्च पञ्चाथ यमकाचलाः । दश त्रिंशद्वर्षधरा, इषुकारचतुष्टयम् ॥ २०७ ॥ विंशतिर्वृत्तवैताढ्याः, शतं दीर्घाः ससप्ततिः । एकोनपञ्चाशान्यद्रिशतान्येवं त्रयोदशम् ॥ २०८ ॥ अष्टौ दाढा: पार्वताः स्युः, कूटास्त्विह चतुर्विधाः । वैताढ्यशेषाद्रिसहस्रांकभूकूटभेदतः ॥ २०९॥ तत्र च २१३ ॥ २१४ ॥ सार्द्धं सहस्रं वैताढ्यकूटानां त्रिंशताऽधिकम् । शेषाद्रिकूटानामष्टशती षडधिका भवेत् ॥ २१० ॥ सहस्राङ्काः पञ्चदशेत्येवं कूटानि भूभृताम् । सर्वाग्रेणैकपञ्चाशे, द्वे सहस्रे शतत्रयम् ॥ २११ ॥ भद्रसालवने मेरोर्यानि दिक्षु विदिक्षु च । तानि दिग्गजकूटानि चत्वारिंशद्भवेदिह ॥ २१२ ॥ द्रूणां दशानामष्टाष्ट, या दिक्षु विदिक्षु च । कूटानि तान्यशीतिः स्युर्नृक्षेत्रे सर्वसंख्यया ॥ शतं वृषभकूटानां, सप्तत्याऽधिकमाहितम् । भवन्त्येवं भूमिकूटा, नवत्याढ्यं शतद्वयम् ॥ महावृक्षा दश तत्र, पञ्च शाल्मलिसंज्ञकाः । शेषा जम्बूर्धातकी च, पद्मश्चान्त्यौ महारौ ॥ २१५ ॥ महाहूदास्त्रिंशदिह, पञ्चाशच्च कुरुहूदाः । भवत्यशीतिरित्येवं, हूदानां सर्वसंख्यया ॥ २१६ ॥ भरतादिक्षेत्रमहानदीकुण्डानि सप्ततिः । विदेहविजयस्थानि तानि विंशं शतत्रयम् ॥ २१७ ॥ षष्टिरन्तर्नदीनां स्युरित्येवं सर्वसंख्यया । चतुःशतीह कुण्डानां पञ्चाशदधिका भवेत् ॥ २९८ ॥ भरतादिक्षेत्रगता, महानद्योऽत्र सप्ततिः । विदेहविजयस्थानां, तासां विंशं शतत्रयम् ॥ २१९ ॥ अन्तर्नद्यः षष्टिरिति परिच्छदजुषामिह । पञ्चाशा मुख्यसरितां, सर्वाग्रेण चतुःशती ॥ २२० ॥ सा चैवं २२१ ॥ गङ्गासिन्धुरक्तवतीरक्ताः प्रत्येकमीरिताः । पञ्चाशीतिस्तथा शीताशीतोदारूप्यकूलिकाः ॥ वर्णकूला नरकान्ता, नारीकान्ता च रोहिता । रोहितांशा हरिकान्ता, हर्यादिसलिलापि च ॥ २२२ ॥ द्वादशान्तरनद्यश्च, पञ्च पञ्चाखिला इमाः । परिच्छदापगास्त्वासां, ज्ञेयाः पूर्वोक्तंया दिशा ॥ २२३ ॥ एवं द्विसप्ततिर्लक्षा, अशीतिश्च सहस्रकाः । भवन्ति मनुजक्षेत्रे, नद्योऽन्यस्मिन् मते पुनः ॥ २२४ ॥ एकोननवतिर्लक्षाः, सहस्रा षष्टिरेव च । एतच्चान्तरापगानां पृथक्तन्त्रविवक्षया ।। २२५ ॥ इदं च नदीसर्वाग्रं जम्बूद्वीपगतमहानदीतुल्यपरिवाराणां धातकीखण्डपुष्करार्द्धगतमहानदीनां संभावनयोक्तं, धातकीखण्डपुष्करार्द्धयोर्महानदीनां परिवारे जम्बूद्वीपवर्त्तिमहानदीपरिवारापेक्षा द्वैगुण्यादिविशेषस्तु बृहत्क्षेत्रविचारादिषु क्वापि न दृष्ट इति नोक्त इति ज्ञेयं ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy