SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 347 प्रागुक्ताख्येषु पूर्वाः, विजयेष्वधुना जिना: । चन्द्रबाहुर्भुजङ्गश्चेश्वरो नेमिप्रभोऽपि च ॥ १८२ ॥ पश्चिमाद्धे तु तेष्वेव, वीरसेनो जिनेश्वरः । महाभद्रदेवयशोऽजितवीर्या इति क्रमात् ॥ १८३ ॥ दीपार्धेऽस्मिन्नगादीनां, संग्रहः सर्वसंख्यया । धातकीखण्डवद् ज्ञेयोऽविशेषान्नोदितः पृथक् ॥ १८४ ॥ द्विसप्ततिः शशभृतस्तावन्त एव भास्कराः । षट् सहस्राणि षट्त्रिंशा, त्रिशत्यत्र महाग्रहाः ॥ १८५ ॥ नक्षत्राणां सहने ढे, प्रज्ञप्ते षोडशोत्तरे । प्रमाणमथ ताराणां, पुष्कराः निरुप्यते ॥ १८६ ॥ अष्टचत्वारिंशदिह, लक्षा द्वाविंशतिस्तथा । सहस्राणि द्वे शते च, स्युस्तारा: कोटिकोटयः ॥ १८७ ॥ एवं चलक्षाण्यष्टौ पुष्कराळू, तावान्कालोदवारिधिः । चत्वारि धातकीखण्डो, ढे लक्षे लवणोदधिः ॥ १८८ ॥ एवं दाविंशतिर्लक्षाण्येकतः परतोऽपि च । मध्ये जम्बूद्वीप एकं, लक्षमायतविस्तृतः ॥ १८९ ॥ पञ्चचत्वारिंशदेवं, लक्षाण्यायतविस्तृतम् । नरक्षेत्रं परिक्षेपो, ज्ञेयोऽस्य पुष्करार्द्धवत् ॥ १९० ॥ आवतो लरक्षेत्रात्, परतो न भवेन्नृणाम् । गर्भाधानं जन्ममृत्यू, संमूर्छिमनरोद्भवः ॥ १९१ ॥ आसन्नप्रसवां कश्चिस्त्रियं नयति चेत्सुरः । नरक्षेत्रात्परं नासौ, प्रसूते तत्र कर्हिचित् ॥ १९२ ॥ यदि कण्ठगतप्राणो, मनुष्यक्षेत्रतः परम् । मनुष्यो नीयते नासौ, म्रियते तत्र कर्हिचित् ॥ १९३ ॥ अथावश्यंभाविजन्मक्षीणायुष्कौ च तौ यदि । तदा सुरस्य तन्नेतुर्भवेदाऽन्यस्य कस्यचित् ॥ १९४ ॥ मनस्तथैव येनैनामासन्नप्रसवां स्त्रियम् । तं वा कण्ठगतप्राणं, नरक्षेत्रे पुनर्नयेत् ॥ १९५ ॥ एवं नात: परमहर्निशादिसमयस्थितिः । न बादराग्निर्न नदी, न विद्युद्गर्जिनीरदाः ॥ १९६ ॥ नार्हदाद्या न निधयो, नायने नैव चाकरा: । नेन्दुवृद्धिक्षयौ नोपरागोऽर्केन्द्रोर्न वा गतिः ॥ १९७ ॥ तथाहुः अरिहंतसमयबायरअग्गी विज्जू बलाहगा थणिआ । आगरनइनिहिउवराग निग्गमे वुड्ढिअयणं च ॥” एतत्सर्वमर्थतो जीवाभिगमसूत्रे चतुर्थप्रतिपत्तौ । क्षेत्रेषु पञ्चचत्वारिंशतीह भरतादिषु । अन्तीपेषु षट्पञ्चाशत्येव संभवेन्नृणाम् ॥ १९८ ॥ बाहुल्याज्जन्म मृत्युच, वाढिवर्षधरादिषु । शेषेषु तु नृणां जन्म, प्रायेण नोपपद्यते ॥ १९९ ॥ मृत्युस्तु संहरणतो, विद्यालब्धिबलेन वा । गतानां तत्र तत्रायु:क्षयात्संभवति क्वचित् ॥ २०० ॥ अथैतस्मिन्नरक्षेत्रे, वर्षक्षेत्रादिसंग्रहः । क्रियते सुखबोधाय, तदर्थोऽयं [पक्रमः ॥ २० ॥ अध्यद्धौ दाविह द्वीपौ, दावेव च पयोनिधी । भरतान्यैरवतानि, विदेहा: पञ्च पञ्च च ॥ २०२ ॥ एवं पञ्चदश कर्मभूमयोऽत्र प्रकीर्तिताः । देवोत्तराख्या: कुरवो, हैरण्यवतरम्यके ॥ २०३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy