SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ एतेन तथा सटीक जंबूद्वीपसग्रहणी " ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥ "" " यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥२॥ परित्राणाय साधूनां विनाशाय सुदुष्कृताम् । धर्मसंस्थापनार्थञ्च सम्भवामि युगे युगे ॥३॥ 99 इत्यादि इह कैश्चिदभिमन्यते तद्व्यवच्छेदो द्रष्टव्यः, तन्निरासप्रकारश्च— " दडूढंमि जहा बीए ण होंति पुणरंकुरस्स उप्पत्ती । तह चेत्र कम्मबीए भवंकुररसापि पडिकुट्ठा ॥ " जगतः भव्यसमूहस्य पूज्यः सेव्यः तं - ' कगटडतदपशषस कर पामूर्ध्वं लुक् ८-२-७७ । ' इति तलुकि, ' अधो मनया 'मिति ८-२-७८ । यलुकि च ' अनादी शेषादेशयोर्द्वित्वम् ८-२-८९ । इति जेद्वित्वे जगपुज्जमिति । ननु पालकस्येवाभव्यस्यापि पूज्या एव भगवन्तस्तत्कथं भव्यसमूहस्येति विवरणमिति चेत्, सत्यं, इह भावपूजाया एवाधिकृतत्वादभव्यस्य भावपूजायाश्च अभावात् । ननु यः सर्वज्ञः स पूज्य एव तत्कथं जगत्पूज्यत्वेनेति, न, ज्ञानानन्तरमेव विशिष्टाया पूजाया उत्पत्तेर्नतु ज्ञानात् प्राक् इति, तथा च " ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥ " इति वचो युक्तिरिक्त ॥ तथा जगत्पूज्यत्वे कृतकृत्यत्वाद् भगवत उपदेशदानाप्रवृत्तिरित्याशङ्कानिरासायाह जगद्गुरु ं ति । भव्यत्रातस्य गृणाति धर्मं यः स जगद्गुरुस्तं । ननु कृतकृत्यत्वाद् भगवतः कथं देशनायां प्रवृत्तिरिति चेत् ? तीर्थंकरनामकर्मोदय निबन्धनप्रवृत्तेः, उक्तञ्च– जगतः " तं च कहं वेइज्जइ अगिलाए धम्मदेसणाएर्हिति । " अनेन च विशेषणचतुष्टयेन भगवतो मूलातिशयाश्चत्वारः ख्यापिताः । तथाहि जिनमित्यनेनापायापगमातिशयः १, सर्वज्ञमित्यनेन ज्ञानातिशयो २, जगत्पूज्यमित्यनेन पूजातिशयः जय द्विवे १
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy