SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी ८-२-४२ " इति ज्ञो णत्वे, "ज्ञो णत्वेऽभिज्ञादावि " ति ८-१-५६ अ' उत्वे च सव्वण्णुमिति । अनेन - - सर्वज्ञस्तथा " सर्वं पश्यतु वा मा वा इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ मुक्तस्तन्निरासो दृश्यः । ननु " तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥ " इति नैयायिकाम्युपगतश्च 66 १ २ इति कैश्चिदभ्युपगत ति न्यायाद् वा कथं सर्वज्ञप्रतीतिरिति चेत् सर्वज्ञोऽसाविति ह्येतत् तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेय विज्ञान र हितैर्गम्यते कथम् ॥ " इति " नासर्वज्ञः सर्वज्ञं जानाती " " सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः " इति इत्थञ्च मुक्तस्य सर्वज्ञानवत्त्वबोधनेन नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति तौतातीतमतं, अविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्माऽपवर्गेऽस्तीति वेदान्तिमतम्, अनुपप्लवाचित्तसन्ततिरिति बौद्धमतम्, अखण्डज्ञानसुखसन्ततिरेव मुक्तिरिति ऋजुसूत्रनयावलम्बिमतं, कर्मक्षयाविर्भूतं सुखसंवेदन मुक्तिरिति सङ्ग्रहनयावलम्बिमतं चापास्तं द्रष्टव्यम् । तन्निरासप्रकास्थ न्यायालोकविवरणादौ या विस्तृतस्ततो वेदितव्यः । ननु सर्वज्ञं इत्येवास्तु किं जिनमिति विशेषणेन इति चेन्न, कैश्चित् सकर्मकाणिमादिविचित्रैश्वर्यवन्तः सिद्धाः प्रतिपादितास्तद्व्यवच्छेदनसार्थकत्वात्, उक्तञ्च तद्दर्शनाभिनिविष्टैः । — " अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ " इत्यादि । किञ्च जिनमित्यनेन कर्मबीजाभाववन्त एव प्रतीयते । ततश्च पुनर्भवागमाभाव इति । अकारस्य अणिमा महिमा चैव गरिमा लघिमास्तथा । प्राप्तिः प्रकाभ्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ ( अमरकोश - पङ्क्ति-७२ )
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy