SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६४ ] १९. आवश्यकाऽनुष्ठानमर्यादेति भावः । २०. आवश्यकानुष्ठानमर्यादा । २१. प्रतिक्रामकानां श्रावकाणाम् । २२. प्रस्तुतकृतेः 'श्रावकानुष्ठानविधि' - संज्ञायाः । २३. आवश्यकानां=सामायिकादीनां षण्णां यत् कार्य, तस्य विधाने सावधानमन्तःकरणचक्षुः येषामिति - व्युत्पत्तिमत्र विरचय्यैतत्पद्गत 'सावधान'-- पदेनैतत् समभिव्यज्यते यत् क्रियमाणसामायिकाऽऽद्यावश्यकेषु विवेरावश्यकत्वं परमाऽनाहार्यमिति, तदर्थ चैतत्प्रन्थप्रणयनं हि सार्थकमिति । २४. अत्र शब्दानामन्वय एवं करणीयो यत्-" इति प्रदर्श्य एतस्य किञ्चित् सुगमताधायि अभिघेयाऽऽदिप्रतिपादनं तत्त्वनिदर्शनदीष्णानां सामान्येन निदर्श्यते" इति । २५. कुशलाऽपरपर्यायोह्ययं शब्दः वैयाकरणमतल्लिकानां समभिज्ञातः । २६. आचामाम्लानां=नीरस - निर्विकृत्यान्नमात्रैकवारभोजनरूपाणां विधानरूपं यत् कार्म्मणं, तेन वशीकृता या तपः श्रीः, तस्याः लक्षणं स्त्ररूपं, तस्या लक्षणेन अवलोकनेन चमत्कृतः । पुनश्च यथार्थवाऽसौ आर्याणां च आचारः, तस्य रक्षणे प्रवणः, इत्येवंविशिष्टो यः मेदपाटाधीशः- मेवाडसंज्ञितदेशस्य स्वामी महाराणा श्रीजंसिहाऽऽख्यः, तेन वितीर्णं 'तपा' विरुदं येभ्यः, तेषामिति व्युत्वत्तिरर्थाऽनुकूलाऽत्र कार्या । २७. वचनानि अतिगतं भागधेयं येषां तेषां वचनाऽगोचर भाग्यशालिनामित्यर्थः । २८. पट्टावरल्याऽऽदिग्रंथेष्वनुपलाभ्यमानमेतद्धिवृत्तं नीयं प्रथांतर समीक्षया । प्रस्तावनासम सद्गुरुचरणसेवालभ्यमानमार्मिकधीषणादद्भिरुह. २६, दुर्वासनाभिरवष्टब्धं यत् हृदयं तदेव कौशिकः, धूकः तदर्थं सहस्रकिरणतुल्यं यत्तपः तस्य विधानं तद्र पो योऽसाधारण हेतुस्तेन लब्धं जन्म यस्यैतादृशस्य 'तप' पदस्य- 'तपा' इति विरुदस्य उपदीभावःसमर्पण (महाराणाजे नृसिंहसंज्ञितमेदपाटाऽधिपतिराजसभायामितिशेषः) तद्वेलायामिति व्युत्पत्तिः सङ्गमनीया । ३०. समुद्रस्येत्यर्थः । ३१. वेला = जलवृद्धि:. 'भरती' इति लोकभाषायाम् । ३२. प्रभावकेषु = प्रकर्षेण भव्यजनानां धर्मभावना कारकेषु, पुण्डरीकाः = पुण्डरीकाऽऽख्यश्वेतकमलबच्छ्र ेष्ठाः तेषां प्रभावक श्रेष्ठानामित्यर्थः । ३३. काल इत्यर्थः । ३४. श्रीमद्भिर्देवेन्द्रसूरीश्वर विहितग्रन्थाश्चेमेऽनया गाथयाऽवबुध्यन्ते, तथाहि : १ श्रीदशाश्रुतस्कन्धसूत्रवृत्तिः २ श्रीकर्मन्थपञ्चकम्
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy