SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ૬ [ श्रीकर्मग्रन्थ० उपो० टिप्पणी अत्र " भीमो भीमसेन " इतिन्यायात् 'आनन्दः' इति अध्याहारगम्यमनन्यसाधारणनिरभिमानिता गुणव्यसनित्वं पूज्याऽऽगमोद्धारकश्रीणा सूचितं दृश्यते । १२१. अशुद्धिरूपं यद् आग : - अपराधरूपं तेन जातं यद् एनः पापं तस्यापनयने = दूरीकरणे प्रभु = समर्थम्, तथा प्रभूणां=पूजार्हाणां उत्तमः श्रेष्ठः तीर्थकृदिति यावत् तैरुपदिष्टम् चेति । १२२. सुराणां पालयः =श्रेणयः, तासां ये शिरोरत्नानि - शिरः स्थमुकुटरत्नानि तैः द्योति क्रमयुगं = चरणद्वन्द्वं यस्य तस्मै । १२३. शान्तेः=स्वास्थ्यरूपायाः निशान्तः गृहं तद्रूपः अयं ग्रन्थ इति । १२४. याम्या=संयमयोग्या अर्हणा = पूजा आयतौ = भाविनि काले येनेति तात्पर्यानुगामी विग्रहो - saraबोध्यः । १२५. निः = निःशेषेन नाशितम् = ध्वस्तम् अशेषं च तत् अशिवं येनेति । १२६. शत्रूणां समूहः शात्रवः, अन्तितः = विनाशितः शात्रवः येन तस्मिन्निति । १२७. मृगग्रामे == मीयागाम इति प्रसिद्धे । १२८. ग्रन्थस्य=‘देवो देवदत्त' इति न्यायेन प्रस्तुतकर्मग्रन्थस्य, उद्घातः = उपोद्घातः प्रस्तावनारूप इति । १२९. मुद्=आनन्दः स चासौ अब्धिः = आनंदसागरः तेनेति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy