SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ जल्पकल्प टिप्प० ] [ ८३ उपरिनिर्दिष्टविशेषणसप्तक- संसूच्यमान - विशिष्ट - गुणालङ्कृता ये श्रीमन्तो जिनेन्द्रास्तेषां शासनं = आज्ञानिर्देशरूपं तदनुसरति यत् तत् शासनं तद्रूपा, या श्रीः तस्याः पतिः = राजा, तस्य आस्थानं = राजसभा तस्मिन् इति सद्गुरूपासनासमुपबृंहित निर्मलधीगम्याऽर्थानुसन्धानलब्धजन्मा विग्रहः बृहत्कायसमस्तपदस्यैतस्य विज्ञेयः । ४. आशाम्बरेभ्यः=दिगम्बरेभ्यः पराभूतेः = पराजयस्य समर्पणं तस्मिन् प्रवणैः समर्थैरिति । ५. स्पष्टिता = विशदतरं वर्णिता गुरूणां आवली = क्रमागतपरम्परा यत्रैतादृशा या गुर्वावलीनाम्नी कृतिः, तस्याः बोधेन जातं स्वान्तसः = निजचेतसः परिकर्मणं = अज्ञानज्ञानरूपेणाऽवबोधेन येषां तेषामिति विग्रहः । ६. पूज्याssचार्य श्री देवसूरिभिः बाल्यावस्थायामप्रौढ दशायामपि गुणचन्द्राऽव्य-दिगम्बरवादिपराभवः कृत आसीत् एतदर्थसंसूचनमत्र विहितमस्ति । ७. चतुरशीतयश्च ते सुवादिनः = प्रखरविद्वत्तादर्पशालिनः वाद कुशलाः पंडिताः, तद्रूपा या वेला = समुद्रजले वृद्धि:, तया लब्धः उल्लसन् चासौ जयः, तद्रूपा या रमा, तस्याः मदः, तस्य केलिना शालते योऽसौ इति विग्रहः । चतुरशीतिवादस्थले महत्तम - विद्वधुरंधरवादकलाकुशल- पण्डितानां पराभवेनोत्पन्न-मदप्राग्भारस्य श्री कुमुदचन्द्रवादिनः निर्देशोऽत्र विज्ञेयः । ८. अखिलं=समस्तं निरवशेषं विदन्ति ये ते सर्वज्ञा इत्यर्थः, तेषां मतं शासनं, तस्य जोषकाणां = सेवकानां सर्वज्ञशासनानुयायिनामित्यर्थः । ९. श्रीसिद्धाधिपः=श्रीसिद्धराज जयसिंहः तस्य हृद्रूपमरविंदम्, तत्रावासः यस्याः, एतादृशी पद्मा= शोभा, तया तस्यां वा परिवृढाः श्रेष्ठाः इति विग्रहः । १०. समस्तं यत् सारेतरयोः = सारासारयोः निरीक्षणं तत्र निपुणः तस्मिन्, एतद्धि पदं लोके इत्यस्य विशेषणम् । ११. अनेके च ते वादाश्च तेषां विजयेन लब्धा या कीर्तिः, तया मुखरितं दिशां चक्रवालं यैः, एतादृशा ये वादिगजानां घटाः श्रेणयः, तासां विशरणे = विनाशे नदीष्णोः यः शार्दूलः = सिंहः, तस्य यत् शौर्य, तस्य शरणभूता = आश्रयस्थानरूपा या शिष्य श्रेणिः, तया विस्फारितः=प्रसारितः यशसां निचयो येषामिति व्युत्पत्तिरर्थानुसारिणी विज्ञेया । १२. सेवकाऽपरपर्यायमिदं पदं लक्षणया विशिष्टसेवाभावाञ्चितचेतस्कविनेयोत्तंसगमकं विज्ञेयं ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy