________________
६२२
श्रीयोगसारस्य मूलवृत्तानि, चतुर्थ: प्रस्तावः
कथयँश्च निमित्ताद्यं, लाभालाभं शुभाशुभम् ।
कोटिं काकिणीमात्रेण, हारयेत् स्वं व्रतं त्यजन् ॥२३॥ ॥ युग्मम् ॥
चारित्रैश्वर्यसम्पन्नं, पुण्यप्राग्भारभाजनम् । मूढबुद्धिर्न वेत्ति स्वं, त्रैलोक्योपरिवर्त्तिनम् ॥२४॥
ततः स्वं भिक्षुकप्रायं मन्यमानो विपर्ययात् । भावनिःस्वधनेशानां, ललनानि करोत्यसौ ॥२५॥
1
प्रशान्तस्य निरीहस्य, सदानन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्क-प्रायाः स्युः किमुतापरे ? ॥२६॥
किं विभुत्वेन ? किं भोगैः ?, किं सौन्दर्येण ? किं श्रिया ? | किं जीवितेन ? जीवानां दुःखं चेत् प्रगुणं पुरः ॥२७॥
नार्थ्यते यावदैश्वर्यं तावदायाति सम्मुखम् ।
.
यावदभ्यर्थ्यते तावत् - पुनर्याति पराङ्मुखम् ॥२८॥
अधैर्यादविचार्येद-मिच्छाव्याकुलमानसः ।
हा हा हेति तदर्थं स, धावन्धावन खिद्यते ॥२९॥ ॥ युग्मम् ॥
स्थिरो धीरस्तु गम्भीरः, सम्पत्सु च विपत्सु च । बाध्यते न च हर्षेण, विषादेन न च क्वचित् ॥३०॥ ये सिद्धा ये च सेत्स्यन्ति, सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं विना हि सिद्धिर्न, प्रोक्ता कुत्रापि शासने ॥३१॥ एवमेव सुखेनैव, सिध्यन्ति यदि कौलिकाः । तद्गृहस्थादयोऽप्येते, किं न सिध्यन्ति कथ्यताम् ॥३२॥ सुखाभिलाषिणोऽत्यर्थं, ग्रस्ता ऋद्ध्यादिगौरवैः । प्रवाहवाहिनो ह्यत्र, दृश्यन्ते सर्वजन्तवः ॥३३॥
परिशिष्टम् १
एवमेव सुखेनैव, सिद्धिर्यदि च मन्यते । तत्प्राप्तौ सर्वजन्तूनां तदा रिक्तो भवेद्भवः ॥३४॥
"
लोकेऽपि सात्त्विकेनैव, जीयते परवाहिनी ।
उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्नाय नश्यताम् ॥३५॥
"