________________
परिशिष्टम् १
श्रीयोगसारस्य मूलवृत्तानि, द्वितीयः प्रस्तावः ममैव देवो देवः स्यात्, तव नैवेति केवलम् । मत्सरस्फूर्जितं सर्व-मज्ञानानां विजृम्भितम् ॥३७॥ यथावस्थितविज्ञात-तत्स्वरूपास्तु किं क्वचित् । विवदन्ते महात्मान-स्तत्त्वविश्रान्तदृष्टयः ॥३८॥ स्वरूपं वीतरागत्वं, पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्ये, दोषा द्वेषादयो ध्रुवम् ॥३९॥ तैर्दोषैर्दूषितो देवः, कथं भवितुमर्हति । इत्थं माध्यस्थ्यमास्थाय, तत्त्वबुद्ध्याऽवधार्यताम् ॥४०॥ यद्वा रागादिभिर्दोषैः, सर्वसङ्क्लेशकारकैः । दूषितेन शुभेनाऽपि, देवेनैव हि तेन किम् ? ॥४१॥ वीतरागं यतो ध्यायन्, वीतरागो भवेद्भवी । इलिका भ्रमरी भीता, ध्यायन्ती भ्रमरी यथा ॥४२॥ रागादिदूषितं ध्यायन्-रागादिविवशो भवेत् । कामुकः कामुकीं ध्यायन्-यथा कामैकविह्वलः ॥४३॥ रागादयस्तु पाप्मानो, भवभ्रमणकारणम् । न विवादोऽत्र कोऽप्यस्ति, सर्वथा सर्वसम्मते ॥४४॥ वीतरागमतो ध्यायन, वीतरागो विमुच्यते । रागादिमोहितं ध्यायन्, सरागो बध्यते स्फुटम् ॥४५॥ य एव वीतरागः स, देवो निश्चीयतां ततः । भविनां भवदम्भोलिः, स्वतुल्यपदवीप्रदः ॥४६॥
द्वितीयः प्रस्तावः सर्वेऽपि साम्प्रतं लोकाः, प्रायस्तत्त्वपराङ्मुखाः । क्लिश्यन्ते स्वाग्रहग्रस्ता, दृष्टिरागेण मोहिताः ॥१॥ दृष्टिरागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिरागो महाज्वरः ॥२॥