________________
४८७
योगसारः ५/१६,१७ लोभस्याऽनर्थकारित्वम्
अत्रायमुपदेशः-सदाऽनुत्सुकेन भाव्यम् ॥१५॥ अवतरणिका - अनुत्सुकताप्रतिपन्थिनो लोभस्यानर्थकारित्वं श्लोकयुग्मेन दर्शयति - मूलम् - 'संसारसरणिर्लोभो, लोभः शिवपथाचलः ।
सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥१६॥ शोकादीनां महाकन्दो, लोभः क्रोधानलानिलः ।
मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥१७॥॥युग्मम् ॥ अन्वयः - लोभः संसारसरणिः, लोभः शिवपथाचलः, लोभः सर्वदुःखखनिः, लोभो व्यसनमन्दिरं, लोभः शोकादीनां महाकन्दः, क्रोधानलानिलो, मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥१६॥ ॥१७॥
पद्मीया वृत्तिः - लोभः - मू तृष्णारूपः, संसारसरणिः - संसारस्य-भवस्य सरणिः-मार्ग इति संसारसरणिः, लोभः, शिवपथाचलः - शिवस्य-मोक्षस्य पन्थाः अध्वेति शिवपथः, तत्राऽचल:-पर्वतो विघ्नभूत इत्यर्थ इति शिवपथाऽचलः, लोभः, सर्वदुःखखनिः - सर्वेषां-निखिलानां दुःखानां-असातानुभवरूपाणां खनि:-आकर उत्पत्तिस्थानकम् इत्यर्थ इति सर्वदुःखखनिः, लोभः, व्यसनमन्दिरम् - व्यसनानाम्-आपदां मन्दिरम् - स्थानमिति व्यसनमन्दिरम्, लोभः, शोकादीनाम् - शोकः-विषाद आदौ येषां ग्रहिलत्वारतिदीनतासङ्क्लेशादीनामिति शोकादयः, तेषाम, महाकन्दः - महान्बृहश्चासौ कन्दश्चेति महाकन्दः, क्रोधानलानिलः - क्रोधः-कोप एवाऽनल:-वह्निरिति
અહીં ઉપદેશ આ પ્રમાણે છે – હંમેશા અનુત્સુક થવું. (૧૫)
અવતરણિકા - હવે બે શ્લોકોમાં અનુત્સુકતાના વિરોધી લોભના નુકસાનો सतावे छ -
શબ્દાર્થ - લોભ સંસારના માર્ગ સમાન છે, લોભ મોક્ષમાર્ગમાં પર્વત સમાન છે, લોભ બધા દુઃખોની ખાણ છે, લોભ આપત્તિઓનું ઘર છે, લોભ શોક વગેરેનો મોટો કંદ છે, લોભ ક્રોધરૂપી અગ્નિ માટે પવન સમાન છે, લોભ માયારૂપી વેલડી १. संसारसारणिर्लोभो - D, E, JI