SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरविज्ञप्ति प्रतिदिनं द्विशो-द्वयोः सन्ध्ययोद्विवारं, प्रतिक्रमणं प्रतीतमेव तद्रूपं यत्सत्कृत्यमुत्तमानुष्ठानं त्वया भगवता प्रज्ञप्तं - प्ररूपितं तद धिकं - त्रिः प्रभृतिकं काम्यधीः- सुखाभिलाषी कः कुर्वीत ? न कोऽ पीत्यर्थः । नु-वितर्के प्रकरणात् खरतरनामा दुरात्मा तद्दृष्टान्तमुखेन प्रतिक्रमणदृष्टान्तपुरस्कारेण, सामायिकादीव-सामायिकोपवासादिवत्, संवरमयं - आश्रवनिरोधलक्षणं पौषधं पर्वस्वेव - अष्टम्यादिपर्व दिवसेष्वेव नियमयन्- अपर्वदिवसेषु प्रतिपदादिषु न कर्तव्यमित्येवंरूपेण मर्यादीकुर्वन् अस्ति - विद्यते यत्तदोर्नियाभिसंबन्धात् तस्मात् त्वदाज्ञाबहिर्बोध्य इत्यन्वयमुखेनैवाक्षरार्थः । ३८ " भावार्थत्वयं यथा सदनुष्ठानमपि प्रतिक्रमणं प्रतिनियतवेला यां प्रत्यहं द्विरेव विधीयते, तथा पौषधोऽपि पर्वदिवसेष्वेव युक्तो, न पुनः प्रतिपदादिष्वपर्वदिवसेष्वपीति तस्याऽज्ञशेखरस्याकृतं, अज्ञशेखरत्वं चास्य प्रतिक्रमणपौषधयोः स्वरूपस्यैवाऽ परिज्ञानात् । यतः प्रतिक्रमणं तावत् दिवारात्र्योः पापानुष्ठानस्य प्रायश्चित्तं तच्चोत्कृष्टारम्भिणोऽपि श्रीमहावीरतीर्थे षाण्मासिकतपोवन्नाधिकमुचितं, पौषधस्तु संवररूपत्वेन सामायिकोपवासादिवदपर्वदिवसेष्वपि युक्त एव | अन्यथा चतुर्थादितपसामपि चतुर्दश्यादिपर्वदिवसेष्वेव कर्तव्यतापत्तेः, चतुदश्यादिष्वेव चतुर्थादितपसो नियमेनाऽऽगमे दृश्यमानत्वात् । तस्माद्यथा चतुर्थादितपसोऽष्टम्यादिदिनेषु नियमेनोक्तत्वेऽपि - संवररूपत्वेनाऽन्यतिथिष्वपि कर्त्तव्यतयाऽनुज्ञातः, तथा पौषधस्यापि । उक्तं च तत्त्वार्थभाष्यवृत्तौ " प्रतिपदादिष्वनियमेन कार्य”
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy